Brief Description
अभिधानमञ्जरी - मदनादिगणवर्ग - मदनवर्ग -मदनादिगणवर्ग - मदनकुटजवर्ग
मदनमधुकलम्बानिम्बबिम्बीविशाला त्रपुसकुटचमूर्वादेवदालीकृमिघ्नम् |
विदुलदहनचित्राः कोशवत्यौ करञ्जः कणलवणवचैलासर्षपाश्छर्दनानि |
मदनकुटचकुष्ठदेवदालीमधुकवचादशमूलदारुरास्नाः |
यवमिसिकृतवेधनं कुलत्थो मधु लवणं त्रिवृता निरूहणानि |
कैयदेवनिघण्टु - १. ओषधिवर्ग
जीमूती जालिनी वेली देवदाली गरागरी ||७९७||
वृत्तकोशो देवताण्डः कर्कोट्याखुविषापहा | देवदाली रसे पाके तिक्ता तीक्ष्णा विषापहा ||७९८||
वामनी हन्ति गुदजकफशोफामकामलाः | ज्वरकासारुचिश्वासहिध्मापाण्डुक्षयकृमीन् ||७९९||
देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् | स्रंसनं गुल्मशूलघ्नमर्शोघ्नं वातजित् परम् ||८००||
धन्वन्तरिनिघण्टु - १. गुडूच्यादिवर्ग
जीमूतको देवताडो वृत्तकोशो गरागरी | प्रोक्ताऽऽखुविषहा वेणी देवदाली च ताडका ||१९७||
जीमूतको ज्वरश्वासकासहिध्मारुचिक्षये | शोफपाण्डुविषध्वंसी गरेषु वमने हितः ||१९८||
निघण्टुशेष - ३. लताकाण्ड
देवताडे देवताली वृत्तकोशो गरागरी | जीमूतकस्तालकश्च वेण्याखुविषघातिनी ||३२०||
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
देवानां ताडो देवताडः, तत्र| देवानां ताली देवताली| वृत्तः कोशोऽस्य वृत्तकोशः| गरं-विषम् आगिरति गरागरी, मूषकविषघ्नत्वात्, स्त्रीलिङ्गः| जीवति जीमूतः “जीवेर्मश्च” [हैमोणादिसू. २१६] इत्यूतः मश्चान्तादेशः, स्वार्थिके के जीमूतकः| ताड्यते ताडः, ऋफिडादित्वाल्लत्वे तालः, स्वार्थिके के तालकः| वेणीव वेणी| आखुविषं घातयति आखुविषघातिनी| आह च–
जीमूतको देवताडो वृत्तकोशो गरागरी|
प्रोक्ताऽऽखुविषहा वेणी देवताडी च ताडकः|| [धन्व. वर्ग १ श्लो. १७६] इति|
एतस्य लोके ‘देवदाली’ इति प्रसिद्धिः||३२०||
पर्यायरत्नमाला
घोषः कर्कटिरादाली देवदाली तुरङ्गकः ||१४३||
हस्तिघोषातकी तस्मान्महत्त्वाद् भिद्यतेऽपरा ||१४४||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - ४. गुडूच्यादिवर्ग
देवदाली तु वेणी स्यात्कर्कटी च गरागरी |
देवताण्डी वृत्तकोशस्तथा जीमूत इत्यपि | पीता परा खरस्पर्शा विषघ्नी गरनाशिनी ||२४५||
देवदाली रसे तिक्ता कफार्शःशोफपाण्डुताः | नाशयेद्वामनी तिक्ता क्षयहिक्काकृमिज्वरान् ||२४६||
देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् | स्रंसनं गुल्मशूलघ्नमर्शोघ्नं वातजित्परम् ||२४७|
मदनपालनिघण्टु - १. अभयादिवर्ग
देवदाली वृत्तकोशा देवताण्डो गरागरी | जीमूतस्तारका वेणी जालिन्यायुर्विषापहा ||२५७||
देवदाली रसे तिक्ता कफार्शः शोफपाण्डुताः | नाशयेद्वासनी तीक्ष्णा क्षयहिध्माकृमिज्वरान् |
देवदाली च कटुका प्रमेहकामलापहा ||२५८||
मदनादिनिघण्टु - १. प्रथमगण
जीमूतको देवदाली कृतवेधगरागरी | वेणी लोमशपत्रा च कर्कोट्याखुविषापहा ||२२||
विषघ्नी कटुका पाके रसे कफविनाशिनी | अर्शघ्नी जन्तुशमनी तीक्ष्ण जीमूतकी मता ||२३||
राजनिघण्टु - ३. गुडूच्यादिवर्ग
जीमूतकः कण्टफला गरागरी वेणी सहा कोशफला च कट्फला |
घोरा कदम्बा विषहा च कर्कटी स्याद्देवदाली खलु सारमूषिका ||५८||
वृत्तकोशा विषघ्नी च दाली लोमशपत्रिका | तुरङ्गिका च तर्कारी नाम्नामेकोनविंशतिः ||५९||
देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा | दुर्नामश्वासकासघ्नी कामलाभूतनाशिनी ||६०||
सरस्वतीनिघण्टु - ४. लतावर्ग
जीमूतको देवदाली चर्मकाऽगाढमोहिनी ||१८||
जीमूतः कर्कटो वेणी मूषिकघ्नी कदम्बिका |१९|
सिद्धमन्त्र - ३. कफघ्नवर्ग
कफघ्नं शालरोहीतच्छागकर्णांश्वकर्णकाः ||४०||
शमीकदम्बबदरीशिंशिपाकर्णिकारिकाः | हरिद्रकोऽरिमेदश्च तिलकः कटभीङ्गुदः ||४१||
मदनस्तुवरश्चैव धत्तूरः केतकी तथा | कोशातकी देवदाली काकतुण्ड्याखुकर्णिका ||४२||
नन्दिकामुकमञ्जिष्ठास्वरसीपर्वपुष्पिकाः | विष्णुक्रान्ता धनहरी लताकस्तूरिका त्रुटि ||४३||
कर्पूरो जातिपत्री च कुलत्थी काककुष्ठकम् | शिलापुष्पं तुत्थकं च शिलाजतु मनःशिला ||४४||
शाल्यादि दग्धभूम्युत्थमोदनो भृष्टतण्डुलैः | वाटो धाना यवापूपा उलुकक उलुम्बुकः |
यूषो गजाश्वोष्ट्रघृतं मन्थो द्राक्षामधुप्लुतः ||४५||
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
शालो रालवृक्षः, रोहीतो रोहेण्डकः, छागकर्णः कुशरीरः, अश्वकर्णः सस्यसम्वरः एन इति प्रसिद्धः| शमीः सक्तुफला, कुत्सिताम्बः कदम्बः, बदरी कोली, शिंशपा कृष्णसारः, कर्णिकारिका कर्णिकारद्रुमः, हरिद्रकः प्रसिद्धः, अरिमेदोऽहिमारः, तिलकः स्त्रीवीक्षणदोहदः, कटभी किणही, इङ्गुदस्तापसतरुः| मदनो गालवृक्षः, तुवरः–
“पत्रैस्तु बकुलाकांरः कलायसदृशः फलैः||
वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः||”
इत्युक्तः| धत्तूरः उन्मत्तः, केतकी प्रसिद्धा, कोशातकी धामार्गवः, देवदाली जीमूतकः, काकतुण्डी काकनासा, आखुकर्णी मूषकपर्णी| नदीकामुकः प्राचीबलः, मञ्जिष्ठा योजनवल्ली, स्वरसी कपित्थपर्णी, पर्वपुष्पिका नागदन्ती, विष्णुक्रान्ता प्रसिद्धा, धनहरी चण्डी| लताकस्तूरिका प्रसिद्धा, त्रुटिः सूक्ष्मैला| कर्पूरो घनसारः, जातिपत्री जातिकोशः, कुलत्था वनकुलत्थः, काककुष्ठकं कङ्कुष्ठं, शिलापुष्पं शैलेयं, तुत्थकं मयूरग्रीवं, शिलाजतु गिरिजम्|
शाल्यादि दग्धभूम्युत्थं दग्धायां भुवि जातं शाल्यादि धान्यं, ओदनो भृष्टैस्तण्डुलैः सिद्धः, वाट्यो दलितगोधूमादिकृत ओदनः, भृष्टयवौदनं इत्येके; धाना भृष्टयवाः, यवाम्पूपा यवकृतमण्डकाः| उलूकको भृष्टहरितधान्यशिम्बः, उलुम्बिका भृष्टशूकधान्यजः, यूषो व्याख्यातः| गजाश्वोष्ट्रघृतं गजाश्वोष्ट्रसम्भवं घृतम्, मन्थो द्राक्षामधुप्लुतः द्राक्षारसमाक्षिकाभ्यामालोडितो मन्थः| एतत्सर्वं कफघ्नम्||४०-४५||
कफवातघ्न पित्तल द्रव्य
पित्तलं कफवातघ्नं वरुणः करुणोऽगुरुः | शिग्र्वर्कालर्ककण्टालीभूस्तृणं मरिचः क्षवः ||९०||
काण्डीरस्तुलसी स्वास्यं ताम्बूलीशृङ्गवेरिका | फणिज्जकश्च चाङ्गेरी पिप्पलीमूलचित्रकम् ||९१||
चव्यं त्वचा च वाराहीकन्दो लशुनगृञ्जनौ | पुन्नाडबाकुचीबीजं लुङ्गीजम्बीरजं फलम् ||९२||
चिञ्चावार्ताककालिङ्गकर्कार्वोर्वारुपाकिमम् | पीलूषणं बालबिल्वं तोदनं शीर्णवृन्तकम् ||९३||
मरिचैलादीप्यगन्धाऽऽसुरीसर्षपरामठाः | गुलिकालवणं स्वर्जियवोषक्षारगन्धकाः ||९४||
कुसुम्भश्च कुलत्थाश्च क्षारकूपाम्बुशुक्तकम् | मद्यं मूत्रं काञ्जिकं च सौवीरकतुषोदके ||९५||
खलः काम्बलिकश्चैव गोरसेन विपाचितौ | तैलं मूलकजीमूतकुटजार्ककरञ्जजम् ||९६||
विडङ्गक्ष्वेडकोशाम्रतुम्बीसर्षपशिग्रुजम् | ज्योतिष्मतीङ्गुदीपार्थपृथ्वीकाहस्तकर्णजम् ||९७||
आरुष्करं तौवरकं द्रवन्तीसप्तलोद्भवम् | नीलिकाशङ्खिनीश्यामादन्तीकम्पिल्लपीलुजम् ||९८||
देवाह्वचीडागम्भीरशिंशिपागरुसारजम् |९९|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
वरुणः सेतुवृक्षः, करुणः, छागलाख्यः, अगरुः जोङ्गकः, शिग्रुः सौभाञ्जनकः, अर्को रूपिका, अलर्को मन्दारः, कण्टाली कण्टकारिका| भूस्तृणं मालातृणं, मरिचो जम्बीरशाकम्,
तल्लक्षणम्–
’जम्बीरगन्धि हरितं यदम्लकटुकं रसे|
शाकं जम्बीरमित्युक्तं जम्भजं चोत्तरापथे' इति||
क्षवः छिक्किका| काण्डीरो व्याख्यातः| तुलसी देवदुन्दुभिः| स्वास्यं सुमुखः, ताम्बूली नागवल्ली, शृङ्गवेरिका गोजिह्वाभेदः|
’शृङ्गवेरवदाहृत्य शृङ्गवेरी विभाविता|
कुस्तुम्बुरुवदाहृत्य तुम्बुरूणि बृहन्ति ”इत्येके|
फणिज्जको मरुवकः, चाङ्गेर्यम्लपत्री| पिप्पलीमूलं ग्रन्थिकं, चित्रको वह्निः|
चव्यं चविका, त्वचा गन्धत्वक्| वाराहीकन्दः–
“क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रा सितरक्तकाण्डा|
बिभर्ति या पल्लवमष्टशब्दात्सकञ्चुकी श्वेतवपुर्वरेण्या– ”इत्यष्टाङ्गसङ्ग्रहे|
“शाककर्कशवाराहवृषणाकारकन्दका|
ताम्बूलवल्लीच्छदवद्वाराही गृष्टिकोच्यते||”
इत्यन्यत्रोक्ता वा वाराही तस्याः कन्दः, लशुनो रसोनः, गृञ्जनः पलाण्डुभेदः, तथा च वाष्पचन्द्रः–
गन्धाकृतिरसैस्तुल्यो गृञ्जनस्तु पलाण्डुना|
सूक्ष्मनालाग्रपत्रत्वाद् भिद्यतेऽसौ पलाण्डुतः|| इति||
पुन्नाडबाकुचीबीजं; पुन्नाड एडगजः, बाकुची सोमराजी तयोर्बीजं; लुङ्गीजम्बीरजं फलम्; लुङ्गी मातुलुङ्गी, जम्बीरो दन्तशठः ताभ्यां जातं फलम्| पाकिममिति चिञ्चादिपञ्चकविशेषणम्| तत्र चिञ्चा चुक्रिका, वार्ताकं वृन्ताकं, कालिन्दं कालिङ्गं, कर्कारु व्याख्यातं, एर्वारुः कर्कटी, पीलूषणं कटुरसं पीलुफलम्, बालबिल्वं कोमलबिल्वफलम्, तोदनं राजप्रियं, शीतफलम्, रावणाम्लिकेत्येके| शीर्णवृन्तकं मुखवासफलम्, कर्वरकमित्येके, क्षुरपत्रकमित्यन्ये|
मरिचं तीक्ष्णं, एला स्थूलैला, दीप्यो यवानी, गन्धा पशुगन्धा, आसुरी राजिका, सर्षपः सिद्धार्थः, रामठो हिङ्गु| गुलिकालवणं पाकातिशृतत्वाद् गुटिकाभूतलवणम्| स्वर्जिः स्वर्जिक्षारः| यवक्षारो यावशूकः| ऊषरा ऊषकः, ऊषरमृत्तिकापाक इत्येके| गन्धको लेलीतकः|
कुसुम्भकुलत्थौ धान्यविशेषौ, क्षारकूपाम्बु क्षाररसं कूपोदकं, शुक्तं चुक्रं, तल्लक्षणम्–
“यन्मद्यादि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम्,
धान्यराशौ त्रिरात्रिस्थं शुक्तं चुक्रं तदुच्यते||” इति||
आदिशब्देन मधूकपुष्पजादिग्रहणम्| उक्तञ्च–
’मधूकपुष्पेक्षुरसगुडपीलुफलादिभिः|
साधितं जातमत्यम्लं शुक्रं चुक्रं च तन्मतम्– ' इति|
’फलादीन्यभिषूयन्ते सस्नेहलवणानि यत्|
तदाहुः शुक्तमपरे सन्धानाभिषुताभिदः|
मघे दत्ते जलस्थाने मद्यसुक्तं तदेव तु|
मधुशुक्तं तु माध्वीके गुडशुक्तं गुडोदके||
इक्षुशुक्तं चेक्षुरसे इत्थमन्यानि कल्पयेत्-'इत्येके|
’सर्वं पञ्चरसं मद्यं कालान्तरवशाद्यदा|
व्यक्तान्यरसमम्लत्वं याति शुक्तं तदोच्यते– 'इत्यन्ये|
मद्यं द्राक्षादिसाधनम्| उक्तं चाष्टाङ्गसङ्ग्रहे–
द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः|
मदाकरं यदेभ्योऽन्यत्तन्मद्यप्रतिरूपकम्|| इति||
मूत्रं गोमूत्रं, काञ्जिकं धान्याम्लं, सौवीरं गोधूमकाञ्जिकम्, निस्तुष यवकाञ्जिकमित्येके, तुषोदकं यवकाञ्जिकम्| खलः काम्बलिकश्च गोरसेन विपाचितः गोरसः तक्रम्| मूलकादीनामगरुसारान्तानां तैलम्| तत्र मूलकं हरितपर्णम्, जीमूतो देवदाली, कुटजो वत्सकः, अर्को रूपिका, करञ्जो नक्तमालः| विडङ्गं वेल्लं, क्ष्वेडः कोशातकी, कोशाम्रं लाक्षावृक्षफलं, तुम्बी अलाबुः, सर्षपः सिद्धार्थः, शिग्रुः सौभाञ्जनकः, ज्योतिष्मती कङगुणिका, इङ्गुदी तापसतरुः, पार्था आदित्यभक्ता, पृथ्वीका वाष्पिका, कृष्णजीरकमित्येके; हस्तिकर्णो रक्तैरण्डकः महापर्णो भूशाल इत्यन्ये, अरुष्करो भल्लातः, तुम्बरको व्याख्यातः, द्रवन्ती शम्बरी, सप्तला चर्मसाह्वा, नीलिका कालाञ्जनी, शङ्खिनी यवतिक्ता, श्यामा श्याममूला त्रिवृत्, वृद्धदारुक इत्येके; दन्ती निकुम्भः; कम्पिल्लो रक्तवर्णः, पीलुस्तीक्ष्णतरुः| देवाह्वं देवदारुः, चीडा सरलः, गम्भीरः सारतरुविशेषः, केचिद् गण्डीरं पठित्वा शिरीषं व्याचक्षते| शिंशिपा कृष्णसारः, अगरु जोङ्गकः| एषु मूलकादीनां बीजानि, देवाह्वानादीनां सारः| एतत्सर्वं श्लेष्मानिलघ्नं पित्तकरञ्च|९०-९८|
सौश्रुतनिघण्टु - ३५. प्रकीर्णगण
जीमूतको देवदाली वृन्तकोषा कदम्बिका |
मूषिकानां विषघ्नश्च टक्कारी च प्रकीर्तिता ||२९६||
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|