उपशान्तरुजोऽस्य च तर्पणम्|
काश्मर्यमधुककुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत्|
तत्तर्पणनस्याभ्यङ्गेषु विदध्यात्|
कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्|
ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम्|
अथवा पञ्चमूलजीवनीयकुक्कुटमांसैः पयो विपचेत्, ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत्||१२||
ततोऽनन्तरमुपशान्तायां तीव्रायां रुजायां तर्पणं योज्यम्| काश्मर्यादिभिः साधितं पयस्तर्पणादिषु विदध्यात्| काश्मर्यः श्रीपर्णी| उरुपूगः एरण्डः| प्रपौण्डरीकः प्रसिद्धो मध्यदेशे|
कृष्णसर्प इत्यादि सुबोधम्| तत इति कृष्णसर्पक्वथितात् क्षीरात्| अथवा पञ्चमूलादिना तर्पणम्| ततः पञ्चमूलादिपाचितात् पयसः|| १२||