कफजे शिरोभितापे लङ्घयेत्|
पुराणसर्पिस्निग्धं वा वामयेत्|
स्वेदः पिण्डेन रूक्षेण|
शिग्रुनिम्बैरण्डक्वाथेन वा नाडीस्वेदः|
देवकाष्ठकुष्ठशार्ङ्गेष्टासरलरोहिषैः सलवणैः सुखोष्णौरालेपः|
यवचूर्णमधुकचन्दनहरिद्राकुष्ठप्रियङ्गुशतपुष्पासुरदारुभिस्तैलाजक्षीरयुक्तैः ससैन्धवैरुपनाहः|
विडङ्गतैलं नस्यं सार्षपं वा तदेव वा व्योषसिद्धम्|
मधूकसारकल्को वा मधुयुतस्त्वग्वा मेष श्रृङ्ग्या इङ्गुदस्य वा| एभिरेव च धूमवर्त्तिः|
शिरोविरेचनद्रव्यैर्वा सूत्रस्थानोक्तैः प्रधमनम्|
तैरेव च पक्वं तैलं मर्शः प्रतिमर्शो वा| शिरोविरेचनान्ते कर्णनादोक्तं स्नेहनस्यम्|
तीक्ष्णाः कवलाः मनश्शिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः|
नलदचूर्णस्य च मुहुर्मुहुराघ्राणनम्||७||
मुहुर्मुहुराघ्राणनमित्येवमनन्तं कफजे शिरोभितापे| सूत्रोक्तप्रकारेण रूक्षेण पिण्डेन स्वेदो हितः| अथवा शिग्र्वादिक्वाथेन नाडीस्वेदः कार्यः|
सलवणैर्लवणयुक्तैः सुखोष्णैर्देवकाष्ठादिभिरालेपो हितः| सुरकाष्ठं देवदारु| तैलेनाजक्षीरेण च युक्तैः सैन्धवेन माणिमन्थेन सहितैर्यवचूर्णादिभिरुपनाहः पिण्डबन्धः|
विडङ्गजं विडङ्गसाधितं वा तैलं विडङ्गतैलं वा नस्यं योज्यम्| तदेव वेति विडङ्गतैलं वा व्योशेण त्रिकटुकेन सिद्धं पक्वम्| मधूकसारकल्कादिना मधुयुक्तेन नस्यमिति सम्बन्धः| मेषश्रृङ्ग्या इङ्गुदस्य च त्वक्| एभिरेवेत्यनन्तरोक्तैर्नस्यौषधैः|
शिरोविरेचनद्रव्यैः सूत्रस्थाने शोधनादिगणसंग्रहोक्तैः प्रधमनं नासायां हितम्| प्रधमनं सूत्रोक्तलक्षणम्| तैरेव चेति शिरोविरेचनद्रव्यैः| मर्शप्रतिमर्शौ सूत्रोक्तलक्षणौ|
एषां च शिरोविरेचनानामन्ते प्रयोगान्ते कर्णनादोक्तं तिलान् नवप्रलूनानित्यादिना पठितं स्नेहनस्यं योजयेत्| तीक्ष्णाः कवलास्तीक्ष्णद्रव्यैर्मरिचशुण्ठ्यादिभिः कृताः| सुबोधम्||७||