Brief Description
अ.सं.उ.३२/३२
कृष्णास्तिलान् विरजसो दृढवस्त्रबद्धान् सप्तक्षपा वहति वारिणि वासयेत |
संशोषयेदनुदिनं प्रतिसार्य चैनान् क्षीरे तथैव मधुकक्वथिते च तोये |
पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम् | विगततुषानरजस्कान् सञ्चूर्ण्य विचूर्णितिर्युञ्ज्यात्|
नलदवालकलोहितयष्टिका नखमिसिप्लवकुष्ठबलात्रयैः|
अगरुकुङ्कुमचन्दनसारिवा सरलसर्जरसामरदारुभिः|
पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत् | समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्|
शैलेयरास्नाशुमतीकशेरुकालानुसारीनतपत्रलोध्रैः|
सक्षीरशुक्लैः सपयः सदूर्वैः तैलं पचेत्तन्नलदादिभिश्च|
गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान्|
वातपित्तजनितानतिवीर्यं व्यापिनोऽपि विविधैरुपयोगैः||४२||
कृष्णाम्स्तिलानित्यादिना गन्धतैलमाह| तिलानाम् दिवा शोषणं रात्रौ वहति प्रवहति वारिणि पानीये वस्त्रबद्धानां वासनमिति सप्तरात्रम्| ततः क्षीरे प्रतिसारणं शोषणं च| ततो मधुयष्टीजले प्रतिसारणं पुनः शोषणम्| पुनरपि क्षीरे भावनम्| ततः संशोष्यावचूर्णनम्| ततो नलदादिचूर्णैः संयोजनम्| ततः सर्वगन्धद्रव्य सिद्धक्षीरेण पीडनम्| ततस्तस्य तैलस्यैर्तैर्नलदादिभिः शैलेयादिभिश्च सह पचनमिति गन्धतैलविधानम्| नलदं मांसी उशीरं वा| बालकं जलम्| लोहितयष्टिका मञ्जिष्ठा| मिसिः शतपुष्पा| प्लवङ्कैवर्ती मुस्तकम्| बलात्रयं बला अतिबला श्वेतबला च| पद्मकादिगणः शोधनादिगणोक्तः| सर्जो देवधूपः| रसो निर्यासः| अमरदारु देवकाष्ठम्| क्षीरशुक्ला क्षीरविदारी| शैलेयं शिलाजतु| कशेरु प्लवम्| कालानुसारी तुम्बुरुः| नतं तगरम्| पत्रं गन्धपत्रम्| इदं नाम्ना गन्धतैलम्| उत्तमं श्रेष्ठमस्थ्नां स्थर्यकृत्| एतच्चातिवीर्यं व्यापिनोऽपि वातपित्ताजनितान् विकारान् विविधैः पानादिभिरुपयोगैर्जयतीति| (विरजसो रजोरहितान् दृढवस्त्रबद्धान् दृढेन वस्त्रखण्डेन बद्धान् कृष्णतिलान् वहति प्रवाहयुक्ते जले सप्ताक्षपाः सप्तरात्रं वासयेत्| अत्र क्षपाशब्देन रात्रिरेव गृह्यते| एनान् तिलान् पुनः क्षीरे मधुकक्वथिते तोये च प्रतिसार्य निक्षिप्येत्यर्थः| चशब्दः समुच्चये| तथैव तद्वदेव सप्तसप्तक्षपा इत्यर्थः| अनुदिनमहन्यहनि परिशोषयेच्च| निशितोयादिनिक्षिप्तेष्वेकविंशतिदिनेष्वप्यातपे निक्षिप्य दिवा परिशोषयेदित्यर्थः| उक्तं च सौश्रुते-
रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले|
दिवा दिवा शोषयित्वा गवां क्षीरे च भावयेत्||
तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना|
ततः क्षीरं पुनः पीतान् विशुश्कांश्चूर्णयेद्भिषक|| इति|
पुनरपि पीतपयस्कान् क्षीरास्थितानित्यर्थः| पूर्ववदेव बाढमतिशयेन शोषितान्| विगततुषान् वीतत्वचः| अरजस्कानपगतरजसस्तान् कृष्णतिलान् सञ्चूर्ण्य चूर्णयित्वा विचूर्णितैः सूक्ष्मरजी कृतैर्नलदादिभिर्योजयेत्| नलदादिचूर्णं तिलचूर्णाद्दशांशं योज्यम्| तिलाद्दशांशं तिलपीडनेषु चूर्णं तु भैषज्यभवं प्रयुञ्ज्यात्| चूर्णेऽतिरिक्ते न तु तैलभवो न्यूने न भैषज्यफलं भवेच्च||
इत्युक्तत्वात्| ततोऽनन्तरं तं तिलपिष्टं समस्तगन्धभैषज्यसिद्धदुग्धेन समस्तैर्गन्धभैषज्यैश्चोरकवालकोशीरकुष्ठचन्दनादिगन्धद्रव्यैः सिद्धेन पयसा सह चक्रयन्त्रे पीडयेच्च| पीडनस्य तोयस्थाने पयो योज्यमित्यर्थः| पीडनोद्भूतं तं तैलं पुनः सक्षीरशुक्लैः क्षीरशुक्लासहितैः सदूर्वैर्दूर्वयोपेतैः शैलेयादिभिः पूर्वोक्तैर्नलदादिभिश्च सह सपयः पयोयुक्तं तैलाच्चतुर्गुणेन पयसा युक्तमित्यर्थः| उक्तं च सौश्रुते-'चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषगि'ति| उत्तमं श्रेष्ठं इदं गन्धतैलाख्यं तैलमस्थिस्थैर्यकृत् पानाभ्यङ्गादिना अस्थ्नः स्थैर्य करोति| विविधैरुपयोगैः पानान्वासननस्याभ्यङ्गादिभेदैः प्रयोगविशेषैः वातपित्तजनितान् वातपित्तोत्थान् अतिवीर्यं अतिशयितमुत्कृष्टं वीर्यं यस्य तत् अतिक्रान्तमर्यादमित्यथ| यथा भवति तथा व्यापिनः सकलशरीरव्यापिनः विकारान् व्याधीनप्याशु न चिराज्जयति| गन्धतैलाख्येऽस्मिन्योगे वसन्ततिलकायौपच्छन्दसिकेन्द्रवज्रास्वागताख्यानि क्रमात् पञ्चवृत्तानि च)|| ४२||
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|