हिङुव्योषालनैमालीलशुनार्कजटाजटाः|
अजलोमी सगोलोमी भूतकेशी वचा लता|
कुक्कुटीसर्पगन्धाख्या तिलाः काणविकाणके|
वज्रप्रोक्ता वयस्था च शृङ्गी मोहनवत्यपि|
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्|
खराश्वश्वाविडुष्ट्रर्क्षगोधानकुलशल्यकात्|
द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः|
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद् घृतम्|
पुराणामथवा तैलं नवं तत्पाननस्ययोः|
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने|
एभिश्च गुलिकां युञ्ज्यादञ्जने सावपीडने|
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने|
प्रयोगोऽयं ग्रहोन्मादान्सास्पस्मारान् शमं नयेत्||३||
हिङ्ग्वादौ वर्गे पुराणं घृतं सिद्धं नवं तैलं वा पाननस्ययोरभ्यङ्गे च प्रयोक्तव्यम्| नैपाली मनःशिला| अर्कजटा अर्कमूलम्| जटा मांसी| अजलोमी मेषविलोचना| गोलोमी दूर्वा| भूतकेशी शुक्ला निर्गुण्डी| लता शतपुष्पा| कुक्कुटी रसायनोक्तलक्षणा| सर्पगन्धा गन्धनाकुली| काणा काकोली| विकाणा क्षीरकाकोली| वज्रप्रोक्ता सुधा| वयस्थां आमलकम्| शृङ्गी कर्कटशृङ्गी| मोहनवल्ली ब्राह्मी शिरीषश्च| रक्षोघ्नं सर्षपम्| अन्यद्रक्षोघ्नमौषधं वचादि यथालाभम्| खरादीनां त्रयोदशानां सामुद्राणां च सत्त्वानां प्राणिनां यथालाभं चर्मादिकम्| एषामित्येभिरिति च हिङ्ग्वादीनां परामर्शः| अवपीडनं कल्कादिनस्यम्| सुबोधम्||३||