स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान्|
शैलेयस्थौणेयकश्रीवेष्टकागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकान्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गुस्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत्|तैश्च प्रदेहं कुर्यात्|
सर्षपसौवर्चलसैन्धवशार्ङ्गाष्ठाभिश्च|
केवलैर्वाक्षमज्जाभिः|
विशेषतश्चैकाङ्गजेषुपुनर्नवहिंस्राकोशातकीकरवीर किंशुकातिविषार्धिवृद्धिमूषिकपर्णीहस्तिकर्णनलिकानाकुलास्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णी
दशपत्रिकाजयन्तीभिः प्रलेपः|
मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्ब वर्षाभूक्वाथेन वा स्नानम्||१०||
स्पर्शसुखांश्चाभ्यङ्गादीन् शैलेयकादिभिस्तैलमभ्यङ्गार्थं पचेत्| तैरेव च जलिपिष्टैः प्रदेहं कुर्यात्| शैलेयं शिलापुष्पम्| (नि) स्थौणेयं शुकबर्हाख्यं कनीयं तैलपीतकम्| श्रीवेष्टको वायसिको दधिश्यावश्च शब्दितः|| ध्यामकं रोमिकम्| अम्बुदं मुस्तम्| अम्बु वालकम्| (नि) 'अरेणुका राजपुत्री चर्माणि कपिला द्विजा| कपिलोला पाण्डुपत्री स्मृत कौन्ती हरेणुका| स्पृहास्पृग्ब्राह्मणी देवीं मालालाकायिकागुरुः||" सर्षपादिभिरपि तैलप्रभेदश्च|
विशेषत इत्यनेनैतत् प्रदर्श्यते| यथा-सर्वाङ्गजविहितमप्येकाङ्गजे श्वयथौ यद्यपि हितं तथापि पुनर्नवादिकं विशेषेण| हिंस्रा मांसी| (नि) 'धामार्गवः कोशफला राजकोशातकी तथा| कटुकोशातकी ज्ञेया जालिनी कृतवेधनम्||" किंशुकः पलाशवृक्षः| ऋद्धिः पीतपुष्पा| लोहितपुष्पा प्रसिद्धा| वृद्धिर्लक्ष्मीः| मूषिकपर्णी वृषकर्णी| हस्तिकर्णः रक्तैरण्डः| (नि) 'नलिका विद्रुमलता कपोतचरणा नली|" नाकुली सर्पसुगन्धा| स्थूलकाकादनी स्थूलकाकनासाख्या| गुञ्जाभिहिता| तालपर्णी ताली| दशपत्रिका विशाला| (नि) 'जयन्त्यावर्तिकापत्रा जयनामासुराजिता|'
मूलकक्वथितोष्णोदकेन स्नानम्| वृक्षकादिक्वथितेन वा| वृक्षकः कुटजः| नक्तमाल आरग्वधः| इति समान्येन श्वयथौ||१०||