अ.सं.चि.५/३६
दशमूलां बलां मूर्वां हरिद्रे पिप्पलीद्वयम्|
पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः|
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रञ्च चित्रकात्|
पयस्यां कुटजं हिंस्रां पुष्पं सारञ्च बीजकात्|
बोलस्थविरभल्लातविकङ्कतशतावरीः|
पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्|
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्|
पथ्यासहस्रां सशतं यवानां चा ढकद्वयम्|
पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्|
पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम्|
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः|
अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च|
शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्|
चूर्णीकृतात्त्रिजाताच्च त्रिपलं निकनेत्ततः|
धान्ये पुराणकुम्भस्थं मांसं खादेच्च पूर्ववत्|
रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम्|
स्वस्थानं निष्परीहारं सर्वर्तुषु चदास्यते||३६||
दशमूलबलादिकं वसिष्ठमुनिप्रोक्तं रसायनं सुबोधम्| दशमूलं पृथग्द्रव्यं पलांशिकम्| दन्त्या मूलम्| चित्रकस्य पत्रम्| पयस्या क्षीरिका| कुटजं वत्सकम्| हिंस्रा मांसी| बीजकमसनम्| बोलस्थविरं बोलवृक्षः| कुलहलमलम्बुसो भूकदम्बकः| शकदेशे मुण्डिकेति प्रसिद्धा| चन्द्रलेखा बाकुची| द्विचत्वारिंशदौषधपलानि यवानामष्टाविंशत्यधिकं पलशतम्| हरीतकीफलानां चैकादशशतानि| सर्वमेकीकृत्य तत्तुलाया परिच्छिद्य ततोऽष्टगुणेन तोयेन पचेत्| पूतं शुक्लरहितं स्रुतत्वात्| पथ्याः शुक्लादुद्धृत्यानस्थिभर्जिताः पूर्ववत् क्वाथे प्रक्षेप्याः| ततः पक्वं धान्यराशौ निखनेत्| मासं धान्ये स्थितिः| पूर्ववत् गुणा आगस्त्योक्ताः||३६||