Brief Description
अ.सं.सू.८/२५
धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम्|
परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यतेऽञ्जनम्|
अथ शुक्लपक्षे पुण्येऽहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थं स्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत्||७५||
तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः|
तत्सर्वं मूषायां प्रक्षिप्य बलिमंगलपूर्वकमग्निमुपसमाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिर्गोमयैर्वा प्रज्वालयेत्||७६||
ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रादित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्य-सुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनोऽक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वा वृद्धवैद्यब्राह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातमावृत्य पृथक् पृथक् निषेचयेत्||७७||
गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाश्रृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकाक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु||७८||
ततः शुक्ले वाससि बद्ध्वा द्वादशरात्रमान्तरिक्षेऽम्भसि वासयेत्||७९||
ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालानुसार्यप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्ययादृषदि पेषयित्वा सुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवलश्रृङ्गवैडूर्य स्फटिकमेषभृङ्ग्यसनसारान्यतमघटितायामञ्जनिकायां निधापयेत्||८०||
अथा पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्वविद् द्विजन्मा विधिवत्तदभिसंस्कुर्यात्||८१||
ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वरैर्द्विजातिवरप्रयुक्तैश्च वेदवादिमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्|१|
अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत्||१||
अथ मन्त्रः- नमःश्चक्षुःपरिशोधनराजाय तथागतायार्हते सम्यक्सम्बुद्धाय|
तद्यथा औम् चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा||२||
ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः प्रत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्|
तस्मादेतद्राज्ञां राजमहामात्राणां च महीं विजिगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक् प्रकल्पयेदिति||८२||
अतःपरं सर्वार्थसिद्धनामानमगदं वक्ष्यते-अथेति मंगले| शुक्लपक्षे द्वादशीनवम्यादावहनि पुष्पादीनामन्यतमेन योगं गते चन्द्रे प्रशस्ते मुहूर्ते लग्ने सिन्धुस्स्रोतःसमुत्थानादियुक्तं सौवीराञ्जनं गृह्णीयात्|| ७५||
तस्याष्टौ भागास्तस्य चाष्टमेन भागेन समानि प्रत्येकं कनकादीनीति सर्वं पिष्ट्वा सम्मिश्र्य मूषायां मय्यां नाड्यां प्रक्षिप्य बल्यादिनाग्निं पूजयित्वा खदिराद्यन्तमदारुणा शुष्कगोमयपिण्डैर्वा प्रज्वालयेत्सह मूषया| तैजसानां कनकादीनामावर्तनभाण्डं मूषेत्युच्यते|| ७६||
ततश्चार्यावलोकितेश्वरादीन् सुमनोक्षताभिरर्चयित्वा तथा वृद्धवैद्यान् ब्राह्मणांश्च शुक्लवाससस्ततो महतीभिर्दक्षिणाभिर्हिरण्यवरवारणादिभिः पूजयित्वा तस्मिन् खदिराद्यग्नौ ध्मातमावृत्य शस्त्रशलाकयोर्ध्वमधश्च सम्मिश्र्य ततोऽवतारितं गोमयस्वरसादिभिर्यथाक्रमं पृथक्सिञ्चेत्|| ७७||
ततः कुङ्कुमोदकसेके दत्ते शुक्ले पटे बद्ध्वा आन्तरिक्षे जले द्वादशरात्रमधिवासयेत्|| ७९||
ततश्छायायां शोषयित्वा दत्तस्फटिकादिप्रतीवापं पुनरपि पूर्वोक्तेन बलिमङ्गलादिना कन्ययादृषदि पेष्यं प्रतीवापं चूर्णम्| किम्भूतया कन्यया?
अहतानि शस्त्राद्यपाटितानि वासांसि यस्याः तथा तथैव कन्यया कर्तृभूतया सुवर्णाद्यन्यतमरचितायामञ्जननाड्यां वैद्यो निधापयेत् स्थापयेत्| गवलं माहिषं श्रृङ्गम्|| ८०||
अथाथर्ववेदविदा ब्राह्मणेन सावित्रेण सौरेण मार्गेण कृतस्वस्त्ययनं अभिसंस्करणीयम्|| ८१||
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|