Brief Description
तुलां खदिरसारस्य द्विगुणामरिमेदसः|
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत्||२०६||
द्रोणशेषं कषायं तं पूत्वा भूयः पचेच्छनैः|
ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम्||२०७||
चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्|
प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम्||२०८||
लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्|
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम्||२०९||
यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्|
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान्||२१०||
कर्पूरकुडवं चापि क्षिपेच्छीतेऽवतारिते|
ततस्तु गुटिकाःकार्याःशुष्काश्चास्येन धारयेत्||२११||
तैलं चानेन कल्केन कषायेण च साधयेत्|
दन्तानां चलनभ्रंशशौशिर्यक्रिमिरोगनुत्||२१२||
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्|
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्||२१३||
दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्|
खदिरादिगुटीकेयं तैलं च खदिरादिकम्||२१४||
इति खदिरादिगुटिका तैलं च|
खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहेऽष्टभागावशेषं क्वाथयेदवतारितं परिस्रुतं च पुनराघनीभावात्|
घनीभूतेशीते च कार्षिकाणि श्लक्ष्णीकृतानि प्रक्षिपेच्चन्दनपद्मकोशीरवालकमञ्जिष्ठाधातकीमुस्तप्रपौण्डरीकमधुकत्रिफलाचातुर्जातकलाक्षानलदतार्क्ष्यशैललोध्रद्विरजनीसमङ्गापाठा कट्फलैलेयपत्तङ्गागरुगैरिकाञ्जनानि| पालिकांश्च जातीफललवङ्गकङ्कोलकबुकान् कर्प्पूरार्द्धकुडवं च|
ता गुटिका वदनस्थाः सर्वान् मुखरोगान् जयन्ति| सौरभं सौमनस्यं रुचिं च जनयन्ति||५४||
खदिरेत्यादि| खदिरस्य तुला पलशतमरिमेदसोऽहिमारस्य तुलाद्वयं द्वे पलशते च तोयवहेऽपां घटचतुष्टके| घटोद्वादशाधिकानि पञ्चपलशतानि| अष्टभागवशेषमष्टांशावशेषं क्वाथयेत्| अवतरितं चुल्लीतपरिस्रुतं गालितञ्च तं पुनराघनीभावात् घनीभावावधि क्वाथयेत्| घनीभूते शीते च सति कार्षिकाणि कर्षप्रमाणानि श्लक्ष्णचूर्णीकृतानि चन्दनादीन्यौषधानि प्रक्षिपेत्| पालिकान् पलप्रमाणान् जातीफलादीन् कर्पूरस्यार्द्धकुडवं द्वे पले च| ततो गुटिकाः कुर्यात्| वदनस्थास्ताः सकलान् मुखरोगान् जयन्ति सौरभादींश्च जनयन्ति||५४||
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|