कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः|
सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्निस्तुषा यवाः||१९||
दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः|
कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्||२०||
कालीयकतिलोशीरमांसीतगरपद्मकम्|
तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु||२१||
इत्यार्द्धार्द्धोदिता लेपा हेमन्तादिषु षट् स्मृताः|
कोलमज्जादयोऽर्द्धश्लोकोक्ताः षट् मुख़ालेपाः षट्सु हेमान्तादिषु ॠतुषु स्मृताः| मुनीन्द्रैरिति शेषः| तत्र बदरमज्जादयो हेमन्ते, व्याघ्र्यादयः शिशिरे, दर्भमूलादयो वसन्ते, कुमुदादयो ग्रीष्मे, कालीयकादयः प्रावृषि, तालीसादयः शरदि, इति|
वर्ण्यस्य मुख़ालेपस्य तु भेदेन द्रव्याण्याह-कोलमज्जेति| शाबरं-लोध्रम्| तन्दुलाः-शालीनाम्| कालीयकं-पीतचन्दनम्|