Brief Description
भा.प्र.म.२४/३२७-३४२
नागरं पिप्पलीमूलं चर्व्य मूषणचित्रकम् । भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्बयम् ॥
रेणुकेन्द्रयवौ पाठा विडङ्गं गजपिप्पली । कटुकातिविषा भार्गी वचा मूर्व्वा च पत्रकम् ॥
देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम् । एला त्रिकण्टकः पथ्या धान्यकञ्च विभीतकम् ॥
धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
यावन्त्येतानि चूर्णानि तावदेवात्र गुग्गुलुः । संमर्द्य सर्पिषा पश्चात् सर्वं संमिश्रयेच्च तत् ॥
एकं पिण्डं ततः कुर्यात् धारयेत् घृतभाजने । गुटिकाष्टङ्कमात्रास्तु खादेत्ताश्च यथोचितम् ॥
यथोचितमिति दोषकालानलाद्यपेक्षया ॥ आदौ शाणोन्मितं खादेत् ततः कर्षार्द्ध- मात्रकम् ।
ततः कर्षमितं खादेत् गुग्गुलुं क्रमतो नरः ॥ दिनानां सप्तके पूर्वे गुग्गुलोः शाणमाहरेत् ॥
द्बितीये कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ॥ गुग्गुलुर्योगराजोऽयं महान्मुख्यो रसायनः ।
मैथुनाहारपानानां नियमो नात्र विद्यते ॥ सर्व्वान् वातामयान् हन्यात् आमवातमपस्मृतिम् ।
वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि ॥ अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदराण्यपि ।
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ॥ प्रमेहं नाभिशूलञ्च कृमिं क्षयमुरोग्रहम् ।
शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ॥ ॥ रास्नादिक्वाथसंयुक्तः सर्व्ववातामयान् हरेत् ।
काकोल्यादिश्रितात् पित्तं कफमारखधादिना ॥ दार्व्वीश्रितेन मोहांश्च गोमूत्रेण च पाण्डुताम् ।
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ॥ छिन्नाक्वाथेन वातास्रं शोफं मूलकजात् शृतात् ।
पाटलाक्वाथसहितो विषं मूषकसम्भवम् ॥ त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम् ।
पुनर्नवादेः क्वाथेन हन्ति सर्व्वोदरानपि ॥
अत्र रास्नादिक्वाथो यथा, — रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम् । सप्तधातुगते वाते सामे सर्व्वाङ्गगे पिबेत् ॥ इति योगराजो गुग्गुलुः ॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|