Brief Description
शा.म.१२/२३९-२४७
रसो गन्धस्त्रिकर्षः स्यात् कुर्यात्कज्जालिका तयोः । ताम्रतारारवङ्गाहिसाराश्चैकैककार्षिकाः ॥ २३९ ॥
शिग्रुज्वालामुखीशुण्ठीबिल्वेभ्यस्तण्डुलीयकान् । प्रत्येकं स्वरसैः कुर्याद्यामैकैकं विमर्दनम् ॥ २४०॥
कृत्वा गोलं वृतं वस्त्रे लवणापूरिते न्यसेत् । काचभाण्डे ततः स्थाल्यां काचकूपी निवेशयेत् ॥२४१॥
वालुकाभिः प्रपूर्याथ वह्निर्यामद्वयं भवेत् । तत उद्धृत्य तं गोलं चूर्णयित्वा विमिश्रयेत् ॥२४२॥
प्रवाणचूर्णकर्षण शाणमात्र विषेण च । कृष्णसर्पस्य गरलैर्द्विवेलं भावयेत्तथा ॥ २४३ ॥
तगरं मुशली मांसी हेमाह्वा वेतसः कणा। नीलिनी पत्रकं चैला चित्रकश्च कुठेरकः ॥ २४४ ॥
शतपुष्पा देवदाली धत्तुरागस्त्यमुण्डिकाः। मधूकजातीमदनरसैरेषां विमर्दयेत् ॥ २४५॥
प्रत्येकमेकवेलं च ततः संशोष्य धारयेत् । बीजपूरार्द्रकद्रावैर्मरिचैः षोडशोन्मितः ॥ २४६ ॥
रसो द्विगुञाप्रमितः संनिपातेषु दीयते। प्रसिद्धोऽयं रसो नाम्ना सन्निपातस्य भैरवः ॥२४७॥
दी० - अथ सन्निपातभैरवरसमाह---रसो गन्धस्त्रिकर्षः स्यादित्यादि । रसः पारदः, गन्धो गन्धकः एतद्वयं मिलितं त्रिकर्ष स्यादित्यर्थः । ताम्रतारावङ्गाहिसाराश्चैकैककार्षिका इति । ताम्रं प्रसिद्धम् । तारं रौप्यं, आरं पीतलोहं, वङ्ग रङ्गवाच्यं, अहिः सीसकं । सारो लोहः एतत्ताम्रादिकं सर्वं मृतं ग्राह्यमिति सम्प्रदायः। एकैककार्षिका इति । प्रत्येकं कर्षसंमिता इत्यभिप्रायः । अपरमपि शिग्रु शोभाजनं ज्वालामुखी जयन्ती बिल्वेभ्य इति । विल्बमूलाद्रसैरिति शेषः । तण्डुलीयः मेघनादशब्दवाच्यः । स्वरसमत्र सद्यस्कं क्वथितरसं वा । अथ प्रक्षेपार्थ द्रव्याण्याह -तत्र सिद्धरसे प्रवाणचूर्णकर्षणेति । प्रवाणचूर्ण विषचूर्णं च मिश्रयेत् । प्रवाणचूर्ण कर्षप्रमाणं, विषचूर्णं शाणमात्रमिति । प्रवाणमिति प्रकर्षेण वाणं सुधाचूर्णमित्यर्थः । एके प्रवालचूर्णं पठन्ति तत्र प्रवालचूर्णं विद्रुमचूर्णं । शुक्तिकाचूर्णमित्यपरे तदभावे शङ्खचूर्णमित्यस्मदीयः सप्रदायः । भावनार्थं द्रव्याण्याह-कृष्णसर्पस्य गरलैः कृत्वा तत्पूर्वोक्तं द्रव्यं द्विवेलं यावद्भावयेत् । गरलं तद्विषं विशेषम् । तगरादिभिश्च तद्वारमेकं भावयेत् । प्रत्येकमिति पृथक् पृथक् । तगरं प्रसिद्धम् । मांसी जटाख्या, हेमाह्वा स्वर्णक्षीरी, वेतसो जलवेतसः, कणा पिप्पली, नीलिनीपत्रकमिति नीलिकापत्रम् , एके नीलिनी पत्रकं च द्रव्यद्वयं व्याख्यानयन्ति तच्च न सर्वमतं, कुठेरकः प्रसिद्धः, देवदाली वल्ली विशेषः, मुण्डिका के. दारमुण्डी, मधूकं मधूकवृक्षः, जाती मालतीरसोऽत्र सद्यस्कः क्वथितो वा यथालाभात् । अयं सिद्धरसो द्विगुञ्जाप्रमितः षोडशमरिचान्वितो बीजपूरार्कद्रर्सन सह भक्षयेत् ॥ २३९ ॥ २४७ ॥
गूo-~पारदः, गन्धकः त्रिकर्षों एतौ, मृतं तारं मृतं रूप्यम् । अभ्रं अभ्रक, वङ्गं, अहिः नागं, सारं लोहं एते एकैककर्षकाः। शिग्र् शोभाजनम् , ज्वालामुखी जयन्ती, तण्डुलीयकः, एभिर्गोलकं कृत्वा पुनर्वस्त्रैर्वृतं काचपात्रस्थं लवणपूरिते भाण्डे न्यसेत् । वहिं दद्यात् । यामद्वयम् । ततः पुनः प्रवालचूर्णकर्षण शाणमात्रविषेण मेलयित्वा कृष्णसर्पस्य गरलैर्भावयेत् दिवसमेकं दिनं पश्चात्स्थालिकायां हण्डिकायां च कूपी निवेशयेत् । हेमाह्वा स्वर्णक्षीरी, नीलिनी अपराजिता, कुठेरकः श्वेततुलसी, देवदाली । मधूकं गुडपुष्पं, जाती मालती, मदनफलं, स्पष्टमन्यत् ॥ २३९-२४७ ॥
शुद्ध पारद और गंधक ३-३ तोले तथा चाँदी-भस्म, अभ्रक भस्म, ताम्र-भस्म, वंग-भस्म, नागभस्म और लोहभस्म १-१ तोला लेकर प्रथम पारे गन्धकको कज्जली बनावें
और फिर उसमें अन्य औषधे मिलाकर सबको सहंजना, हुलहुल, सोंठ, वेलछाल और चौलाई इनके स्वरस ( अभावमें क्वाथ ) में १-१ प्रहर खरल करें । तदनन्तर सबका एक गोला बनाकर उसे कपड़े में लपेट ले और कांचकी आतशी शीशीमें सेंधा नमक का चूर्ण डालकर उसमें वह गोला डाल दें तथा ऊपरसे भी सेंधा नमक का चूर्ण डालकर गोलेको नमकसे ढकदें। तदनन्तर इस शीशीको बालकायन्त्रमें रखकर २ प्रहर पाक करें और फिर शीशीके ठण्डा होने पर उसमें से औषधको निकाल कर चूर्ण कर लें और उसमें १ तोला मूंगेकी भस्म तथा ५ माशे शुद्ध बछनागका चूर्ण मिलाकर काले सांपके विषकी २ भावना दें। तत्पश्चात् तगर, मूसली, जटामांसी, चोक, अम्लबेत, पीपल, नीलीका पञ्चाङ्ग, तेजपात, इलायची, चीता, वनतुलसी, सोया, देवदाली (विंडाल), धतूरा, अगथिया, गोरखमुण्डी, महुवा, चमेली और मैनफल; इनके स्वरस या क्वाथ की १-१ भावना देकर सुखाकर सुरक्षित रखें। मात्रा-२ रत्ती । (व्यवहारिक मात्रा आधी रत्ती)
अनुपान-अदरक और बिजौरका (१-१ ला) रस तथा १६ काली मिर्चोंका चूर्ण एकत्र मिलाकर उसमें उपरोक्त रस मिलाकर पीना चाहिये। यह रस सन्निपात ज्वरको नष्ट करता है। यह सन्निपातकी एक प्रसिद्ध औषध है।
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|