Brief Description
शा.म.१२/२६८-२७५
सूतो वज्रमहिर्मुक्ता तारं हेमासिताभ्रकम् ॥२६७॥
रसैः कर्षांशकानेतान्मर्दयेदिरिमेदजैः । प्रवालचूर्णं गन्धं च द्विद्विकर्षं विमिश्रयेत् ॥२६८॥
ततोऽश्वगन्धास्वरसैर्विमद्य मृगशृङ्गके। क्षिप्त्वा मृदुपुटे पक्त्वा भावयेद्धातकीरसैः॥२६९॥
काकोली मधुकं मांसी बलात्रयबिसेङ्गुदे। द्राक्षापिप्पलवन्दाकं वरी पर्णीचतुष्टयम् ॥ २७० ॥
परूषकं कसेरुश्च मधूकं वानरी तथा। भावयित्वा रसैरेषां शोषयित्वा विचूर्णयेत् ॥२७१॥
एलात्वक्पत्रकं वांशी लवङ्गागरुकेशरम् । मुस्तं मृगमदः कृष्णा जलं चन्द्रश्च मिश्रयेत् २७२॥
एतच्चूर्णैः शाणमितै रस कन्दर्पसुन्दरम् । खादेच्छाणमितं रात्रौ सिता धात्री विदारिका ॥ २७३ ॥
एतासां कर्षचूर्णेन सर्पिष्कर्षेण संयुतम् । तस्यानु द्विपलं क्षीरं पिबेत्सुस्थितमानसः ॥२७४॥
रमणी रमयेद्बह्वीः शुक्रहानिर्नजायते ॥
दी०-सूत इत्यादि । सूतः पारदः, वज्रं हीरकं, अहिः सीसकं, मुक्ता प्रसिद्धा, तारं रौप्यं, हेम सुवर्ण, असिताभ्रकं कृष्णाभ्रकं, एतत्सर्वमपि मारितं ग्राह्यमित्यत्र व्यवहारः । एतेषां मानमपि कर्षप्रमाणं प्रयेकम् । इरिमेदो विट्खदिरः, सच लोके 'रेओज' शब्दवाच्यः तस्य त्वक् ग्राह्या। अपरद्रव्यद्वयमपि मेलनार्थं द्विद्विकर्षं प्रत्येकं देयम् । तच्च प्रवालचूर्णं विद्रुमचूर्णं, गन्धं गन्धकं, मृगशृङ्गके मृगशृङ्गसम्पुटे तदौषधं धार्यमित्यभिप्रायः । मृदुसम्पुटं च लघुगजपुटमित्यर्थः । पश्चाद्भावनार्थं द्रव्याण्याह-धातकी धातकीकुसुमानि, काकोली खनामख्याता, मधुकं मधुकयष्टी, मांसी जटाख्यं सुगन्धद्रव्यम् । बलात्रयं प्रसिद्धम् तच्च बला अतिबला नागबलेति, बिसं मृणालं, भसीण्डशब्दवाच्यं लोके, इङ्गुदं वृक्षेङ्गुदं, द्राक्षा प्रसिद्धा, पिप्पलवन्दाकमिति पिप्पलवृक्षस्य वन्दा, वन्दा च विटपलग्नो गुल्मविशेषः, एके पिप्पलवन्दाकं द्रव्यद्वयं वर्णयन्ति तत्र पिप्पल: पिप्पलत्वक् वन्दावृक्षः वन्दा प्रसिद्धा अपरे पिप्पलीवन्दाकमिति व्याख्यानयन्ति, बाणः सहचरः एके बाणस्थाने वरीति पठन्ति, पर्णीचतुष्टयामिति । माषपर्णी मुद्गपर्णी, शालपर्णी, पृष्णपर्णी, चेति, परूषकं फालसाशब्दवाच्यं, कसेरुकं प्रसिद्धम् । मधूकं मधूकवृक्षपुष्पाणि, वानरी कपिकच्छू:, एतेषां स्वरसेन प्रत्येकं भावयेदित्यर्थः । अथ चूर्णार्थ द्रव्याण्याह-एलात्वक्पत्रकमित्यादि । वांशी त्वक्क्षीरी वंशरोचना इति प्रसिद्धा, अगरु प्रसिद्धम् , केशरं नागकेशरं, मुस्तं प्रसिद्धम् , मृगमदः कस्तूरी, कृष्णा पिप्पली, जलं बालकं, चन्द्रः कर्पूरः एतत्सकलं शाणमितं टङ्कप्रमाणं भक्षणार्थं रात्री निशामुखे । अनुपानमाह-द्विपलं क्षीरं पिबेत् , कथम्भूतम् ? सितादीनां द्रव्यत्रयाणां चूर्णं मेलयित्वा कर्षमात्रं संगृह्य कर्षमानेन च धृतेन सह संमर्द्य तन्मिश्रितम् । सिता मत्स्यण्डी, धात्री आमलकी, विदारी विदारीकन्दः, सुखितमानसः स्वस्थः, नतु आतुरः, तस्य विहितत्वात् न हानि क्वापि गच्छतीति स पुरुषः । वीर्यहानि न प्राप्नोति इत्यर्थः ॥ २६७-२७४ ॥
गू०-अथ कन्दर्पसुन्दरो रसः । सूतः पारदः, वज्रं हीरकं वा अभ्रकं, अहिः सीसकः, मुक्ता प्रसिद्धा, तारं रौप्यं, मृतं हेमं स्वर्णं मृतं, सिताभ्रकं, श्वेताभ्रकं मारितम्, एतान् कर्षांशिकान्' प्रत्येकान्' इरिमेदो विट्खदिरः तेन मर्दयेत् । प्रवालो विद्रुमः द्विकर्षों गन्धको द्विकर्षः । अश्वगन्धास्वरसैमर्द्यः, मृगशृङ्गके कृत्वा मृदुपुटे पचेत् । ततो धातकीरसैर्भावयेत् । परूषकफलविशेषः कसेरुः प्रसिद्धः, मधूकं गुडपुष्पः, वानरी कपिकच्छूः एषां रसैर्भावयित्वा शोषयित्वा विचूर्णयेत् । एलादिकैः प्रत्येकं शाणमितैर्मिश्रयेत् । पुनः कन्दर्प. सुन्दरं शाणमितं रात्रौ, सिता धात्री विदारिका एतेषां कर्षचूर्णेन युतं सर्पिः कर्षेण संयुतं खादेत् । तस्यानु द्विपलं क्षीरं पिबेत् । सुस्थिरमानसः रमणी रमयेत् । एला क्षुदैला, पत्रं पत्रजं, वांशी रोचना, लवङ्गं, अगरु, केसरं, मुस्तं, मृगमदं कस्तूरी, कृष्णा पिप्पली, जलं बालकं, चन्द्रः कर्पूरः, सिता प्रसिद्धा, धात्री आमलकी, विदारीकन्दं, सर्पिघृतं, स्पष्टमन्यत् ॥ २६७-२७४ ॥
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | Ushna veerya |
| Vipaka | Madhura |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|