चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ||३९||
हरेणवो मृणालं च त्रिफला पद्मकोत्पले |
त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ||४०||
तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे |४१|
अस्य रोपणार्थं द्वितीयं चन्दनादितैलमाह- चन्दनमित्यादि| कर्कटाख्या कर्कटशृङ्गी| सहे माषपर्णी मुद्गपर्णी च| अमृता गुडूची| हरेणवः कलायाः| मृणालम् उशीरम्| उत्पलं नीलोत्पलम्| त्रिवृतमिति त्रिभिर्घृतवसामज्जभिर्वृतं तैलं त्रिवृतम्| एतत् त्रयोदशाङ्गं तैलम्| पयसा क्षीरेण चतुर्गुणेन पक्वम्| वाशब्दः पूर्वोक्ततैलापेक्षया| ‘मांस्याह्वया’ इत्यस्य स्थाने ‘सोमाह्वया’ इति केचित् पठन्ति; सोमाह्वया त्रिसन्धिका, ‘सोमलता’ इत्यपरे| गयी तु मज्जवर्जं त्रयः स्नेहास्त्रिवृतमित्याह, तन्मते त्रिवृतं पयसा विपक्वं व्रणरोपणमिति व्याख्यानम्||३९-४०||-