धन्वन्तरिनिघण्टु - गणद्रव्यावलि शतपुष्पादिवर्ग
सूक्ष्मैला केसरं त्वक् च पत्रं तालीसकं तुगा | पृथ्वीका दाडिमं धान्यं जीरकं च द्विकार्षिकम् |४|
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् | मरीचं दीप्यकं चैव वृक्षाम्लं साम्लवेतसम् |५|
अजमोदाजगन्धे च दधित्थं चेति कार्षिकम् | प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम् |६|
चूर्णमग्निप्रसादं स्यात्परमं रुचिवर्धनम् | प्लीहाकासामयार्शांसि श्वासं शूलं ज्वरं वमिम् |७|
निहन्ति दीपयत्यग्निं बलवर्णकरं परम् | वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् |८|
शतपुष्पादिको वर्गो द्वितीयः परिकीर्तितः | कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् |
इति शतपुष्पादिर्द्वितीयो वर्गः |९|