च. सूत्रस्थानम् - २. अपामार्गतण्डुलीयोऽध्यायः
त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम् | कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||९||
पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च | पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)
वमनमनु विरेचनाभिधानं शिरःपूर्वकदेहशोधनाभिधानानुक्रमेणामाशयोर्ध्वभागशोधनानन्तरमामाशयाधोभागस्थितपित्तहरत्वेन| एवं विरेचनानन्तरं बस्त्यभिधानेऽपि वाच्यम्| त्रिवृदादावुच्यते, विरेचनद्रव्येषु श्रेष्ठत्वात् | उक्तं हि- त्रिवृत् सुखविरेचनानाम् (सू.अ.२५) इति | नीलिका नीलबुह्ना [१] | क्षीरिणी दुग्धिका| द्रवन्ती दन्तीभेदः| निचुलं हिज्जलमिति प्रसिद्धम्| पक्वश्चासावाशयगतश्चेति पक्वाशयगतः| तेन पित्ताशये एवामाशयाधोभागलक्षणे दोषो विरेचनविषयो भवति, न पक्वाशयगतः| दोषशब्देन चेह विरेचननिर्हरणयोग्यत्वात् पित्तं कफपित्तं वा गृह्यते | यदुक्तं- पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् | स्रंसनं, त्रीन् मलान् बस्तिर्हरेत् पक्वाशयस्थितान् (चि.अ.३) इति | यदि वा पक्वाशयसमीपगतत्वेनाधःप्रवृत्त्युन्मुखो दोषः पक्वाशयगत इत्युच्यते; यथा- गङ्गायां घोष इति||९-१०||