शतपुष्पादिवर्ग द्रव्य
शताह्वा मेथिकोग्रा च हपुषा कृमिजित्तथा |
कुटजो नरपुष्पश्च त्रिक्षारा लवणानि च ||२३||
हिङ्गु हिङ्गुशिवाटी च तुम्बरू द्राविडीद्वयम् |
केसरं चोचपत्रे च तालीसं वंशरोचना ||२४||
पृथ्वीका दरकृष्णौ च बहुलो दाडिमद्वयम् |
धान्यकाजाजियुग्मं च पिप्पली पिप्पलीजटा ||२५||
चव्येभपिप्पली वह्निर्नागरं मरिचद्वयम् |
यवानीयुग्मवृक्षाम्लं वैतसाम्लोऽजमोदकः ||२६||
गुडदिल्लोऽजगन्धा च कपित्थमिति च स्मृतः |
शतपुष्पादिको वर्गो द्वितीयो गुणसङ्ग्रहे ||२७||
गुणसङ्ग्रह (द्वितीय भाग) - २. शतपुष्पादिवर्ग
शतपुष्पादिवर्गद्रव्यगुण
शताह्वा कफवातार्श आमातीसारशूलनुत् |
तीक्ष्णोष्णा कटुका पाके रुच्या पित्ताग्निवर्धनी ||२५९||
मेथिका चातितिक्तोष्णा वमिवातकफापहृत् |
वचायुर्बुद्धिस्मृतिदा कफवातामभूतहृत् ||२६०||
हपुषा श्वासकासघ्नी शूलवातकफापहा |
विडङ्गं कटुकं पाके लघु वातकफापहम् ||२६१||
तिक्तमीषद्विषं हन्ति रूक्षोष्णं क्रिमिनाशनम् |
कुटजः कफपित्तास्रत्वग्दोषार्शोतिसारनुत् ||२६२||
तद्बीजं रक्तपित्तातिसारज्वरहरं हिमम् |
नरपुष्पोऽनिलश्वित्रपित्तघ्नो ग्राहिश्वासहृत् ||२६३||
यावशूकोऽनिलश्लेष्मप्लीहानाहगलामयान् |
गुल्महृद्ग्रहणीपाण्डुश्वासदुर्नामनाशनः ||२६४||
स्वर्जिक्षारोग्निकृत्तीक्ष्णः क्रिमिजित् गुल्मशूलनुत् |
विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः ||२६५||
मालतीतीरजः क्षारस्तीक्ष्णो वह्निप्रदीप्तिकृत् |
पालाशः क्षारकार्येषु शस्तोऽनपत्यकारकः ||२६६||
सुधाक्षारोऽग्निना तुल्यः क्लेदी पक्ता विदारणः |
पूतीकनक्तमालार्कधवमुष्ककपाटलाः ||२६७||
सर्षपत्रपुसैर्वारुकदलीतिलशिग्रुजाः |
कोशातकीन्द्रतर्कारीशिखरिवरुणाग्निजाः ||२६८||
क्षाराश्चान्येऽपि गुल्मार्शोग्रहणीरुक्छिदः सराः |
पाचनाः क्रिमिपुंस्त्वघ्नाः शर्कराश्मरिनाशनाः ||२६९||
चक्षुः केशोजसां नेष्टा रक्तपित्तकराः परम् |
विस्र्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं हि तत् ||२७०||
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत् |
सैन्धवं तत्र सुस्वादु वृष्यं हृद्यं त्रिदोषनुत् ||२७१||
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम् |
विपाके मधुरं स्निग्धं विबन्धघ्नं रुचिप्रदम् ||२७२||
रुचकं लघु हृद्यं च सुगन्ध्युद्गारशोधनम् |
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम् ||२७३||
विशदं गुल्मशूलघ्नं वीर्योष्णं पाचनं परम् |
सौवर्चलगुणाः कृष्णलवणे गन्धवर्जिताः ||२७४||
बिडं तीक्ष्णोष्णकटुकं रुच्यं हृद्रोगनाशनम् |
ऊर्ध्वाधःकफवातानुलोमनं सूक्ष्मदीपनम् ||२७५||
विबन्धानाहविष्टम्भशूलगौरवमर्दनम् |
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ||२७६||
भेदनं स्निग्धमीषच्च शूलघ्नं नाति पित्तलम् |
औद्भिदं कटु सक्षारं तीक्ष्णमुष्णं सतिक्तकम् ||२७७||
वातानुलोमनं सूक्ष्मं लघु चोत्क्लेदकारकम् |
रोमकं तीक्ष्णमुष्णं च व्यवायि कटुपाकि च ||२७८||
वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् |
गुटिकाख्यं च लवणं लेखनं पित्तकोपनम् ||२७९||
दीपनं पाचनं भेदि कृमिवातकफापहम् |
पांशुजं तिक्तमुष्णं च शोषि पित्तकफोल्बणम् ||२८०||
ऊषक्षारोऽनिलध्वंसी प्रक्लेद्युष्णोऽनलोल्बणः |
लवणानां प्रयोगेषु सैन्धवादीन् प्रयोजयेत् ||२८१||
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् |
कटुपाकरसं रुच्यं दीपनं पाचनं लघु ||२८२||
पित्तास्रकोपि स्निग्धोष्णं विबन्धाजीर्णनाशनम् |
बोष्काणदेशजं श्रेष्ठं ततो न्यूनगुणं परम् ||२८३||
बाष्पिका कटुतीक्ष्णोष्णा कृमिश्लेष्महरा परम् |
तुम्बुरु श्लेष्मशूलघ्नं गन्धाढ्यमनिलापहम् ||२८४||
सूक्ष्मैलामूत्रकृच्छ्रार्शिःश्वासकासकफे हिता |
स्थूलैला रक्तपित्तघ्नी वमिशुक्राश्मजित् हिमा ||२८५||
तृष्णाहृल्लासकण्डूघ्नी पित्तश्लेष्मामयापहा |
केसरं विषवीसर्परक्तार्शोवमिकुष्ठनुत् ||२८६||
हृल्लासस्वेददौर्गन्ध्यतृष्णापित्तकफान् जयेत् |
वराङ्गं कफशुक्रामवातघ्नं मधुरं कटु ||२८७||
पत्रकं कफवातास्रहृल्लासारोचकापहम् |
तालीसपत्रं तीक्ष्णोष्णं कफवातक्षयापहम् ||२८८||
मुखरोगहरं श्रेष्ठं हृद्यं वाजीकरं परम् |
वांशी स्वादुहिमा रूक्षा शोषकासक्षयापहा ||२८९||
भ्रमश्वासहरा चैव तवक्षीरं च तद्गुणम् |
पृथ्वीका दीपनी रुच्या हृद्दाहकफवातनुत् ||२९०||
क्रिमिहन्त्री कटुः पाके स्त्रीणां गर्भप्रदा सरा |
दरकृष्णो वातशूलगुल्मघ्नःस्तन्यपुष्टिकृत् ||२९१||
बल्यो वाजीकरः पानात् लेपात् शोणितशूलनुत् |
बहुलो दीपनः श्लेष्मकृमिशूलातिसारनुत् ||२९२||
दाडिमं मधुरं छर्दितृष्णादाहविनाशनम् |
उद्रिक्तपित्तान् जयति त्रीन् दोषान् स्वादु दाडिमम् ||२९३||
अम्लं वातकफघ्नं नात्युष्णं पित्ताविरोधि च |
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम् ||२९४||
षाडवे पानके शाके पयः पथ्ये सदा हितम् |
दाडिमी वर्णदा लेपात् वर्चो बध्नाति भक्षिता ||२९५||
तत्पुष्पं च पुनर्ज्ञेयं नासासृक्घाति नावनात् |
आर्द्रा कुस्तुम्बरी कुर्यात् स्वादु सौगन्ध्यहृद्यताम् ||२९६||
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता |
सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशनी ||२९७||
दोषघ्नी कटुका किञ्चित् तिक्ता चेतोविशोधनी |
हृन्नयनहिता रुच्या दीपनी वमिकासुनुत् ||२९८||
द्विजीरकं तु गन्धाढ्यं श्लेष्मवातान्नगन्धहृत् |
पित्ताग्निकृच्च तीक्ष्णोष्णं रुच्यं पाके रसे कटु ||२९९||
पिप्पल्यार्द्रा गुरुस्निग्धा श्लेष्मला स्वादुशीतला |
सा शुष्का कटुका वृष्या स्निग्धोष्णा दीपनी सरा ||३००||
स्वादुपाकानिलश्लेष्मश्वासकासापहा लघुः |
पित्ताविरोधिनी रुच्या यकृत्प्लीहोदरापहृत् ||३०१||
न तामप्युपयुञ्जीत रसायनविधिं विना |
ग्रन्थिकं भेदि तीक्ष्णोष्णं कृमिश्लेष्महरं लघु ||३०२||
कटुपाकरसं रूक्षं दीपनं रुचिपित्तकृत् |
चविकागजपिप्पल्यौ पिप्पलीमूलवत्स्मृते ||३०३||
परं विस्पन्दिनी ज्ञेया विशेषाद्गजपिप्पली |
चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा ||३०४||
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् |
रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ||३०५||
आर्द्रकं दीपनं हृद्यं स्वादुपाकं रुचिप्रदम् |
स्निग्धं कटुरसं स्वर्यं विबन्धानाहशूलनुत् ||३०६||
उष्णं वृष्यतमं प्रोक्तं कफवातामयापहम् |
कृष्णादि नागरान्तं च पञ्चकोलमुदाहृतम् ||३०७||
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम् |
मरिचार्द्रे स्वादुपाकं गुरु श्लेष्मप्रसेकि च ||३०८||
तत् शुष्कं लघु तीक्ष्णोष्णं सूक्ष्मं दीपनपित्तकृत् |
कटुपाकरसं रुच्यमवृष्यं कफजित्परम् ||३०९||
तत् श्वेतं नाति रूक्षं च नात्युष्णं वीर्यतो भवेत् |
परं तेभ्यश्च गुणवच्चक्षुष्यं तद्विशेषतः ||३१०||
पिप्पली मरिचं शुण्ठी त्रयं त्रिकटुकं जयेत् |
स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान् ||३११||
यवानी कोष्ठहृच्छूलगुल्मजित्पाचनी परम् |
हृद्या च दीपनी तीक्ष्णा वातोदर्दहराग्निकृत् ||३१२||
तद्वच्च पारसीका सा कृमिनुत्पित्तलाधिका |
तिन्तिडीकं भवेदामं वातहृत् श्लेष्मपित्तकृत् ||३१३||
तत्पक्वं दीपनं रुच्यं ग्राह्युष्णं कफवातजित् |
वेतसाम्लोऽश्मरीगुल्ममेहप्लीहोदरामयान् ||३१४||
सशूलानाहविष्टम्भान् सर्वान्वातकफान् जयेत् |
कषायः कटुरूक्षश्च दुर्नामघ्नो रसायनः ||३१५||
दीपनो भेदनोऽस्थ्यादिद्रावणश्चाग्निमान्द्यजित् |
खराश्वा कफवातघ्नी बस्तिरोगरुजापहा ||३१६||
तीक्ष्णोष्णा हृद्यगन्धा च कटुपाकाग्निपित्तकृत् |
गुडदिल्लः कफश्वासकासवातविनाशनः ||३१७||
तिक्तो ज्वरहरश्चासौ मुखवैशद्यकारकः |
स्रस्तरी सर्वदोषघ्नी रुच्याग्निदीपनी परम् ||३१८||
कटुपाकरसा हृद्या पथ्यातीसारिणां तु सा |
कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत् ||३१९||
पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत् |
दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम् ||३२०||
उभयं विषहृद्ग्राहि लेपात्त्वग्दोषनाशनम् ||३२१||