Brief Description
Unpolished variety of Rice also called as Navara Rice in Kerala.
चरकसंहिता - सूत्रस्थानम् - २७. अन्नपानविध्यध्यायः
शीता रसे विपाके च मधुराश्चाल्पमारुताः| बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः||१०||
रक्तशालिर्वरस्तेषां तृष्णाघ्नस्त्रिमलापहः |
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)
रक्तशालिः प्रसिद्ध एव| महाशालिर्मगधे प्रसिद्धः| अत्र च शालिर्हैमन्तिकं धान्यं, षष्टिकादयश्च ग्रैष्मिकाः, व्रीहयः शारदा इति व्यवस्था| रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव|
अष्टाङ्गहृदयम् चिकित्सास्थानम् - १. ज्वरचिकित्सिताध्यायः
रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः||७२||
श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः|
सर्वाङ्गसुन्दरी व्याख्या
रक्ताद्याः रक्तो महान् सकलमः (हृ.सू.अ.६/९) इत्यादयः| तथा, षष्टिका व्रीह्यादयोऽपि, जीर्णाः पुराणाः, हिताः पथ्याः| श्लेष्मोत्तरे प्रभूतश्लेषमणि ज्वरे, वीततुषाः अपनीतत्वचो, यवाश्च पथ्याः| कीदृशाः ? वाटीकृताः भृष्टविदलीकृता इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या
पथ्ययोग्यं धान्यमाह-रक्ताद्या इति| वाटीकृताः बाधत्वं नीताः| बाधत्वं भृष्टस्य शकलीकरणम्|
अष्टाङ्गहृदयम् चिकित्सास्थानम् - १. ज्वरचिकित्सिताध्यायः
ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्||७३||
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः|
सर्वाङ्गसुन्दरी व्याख्या
ओदनस्तैः-रक्ताशाल्यादिभिः पूर्वोक्तैश्च, कृतो ज्वरिणो यथायथं यो यस्य दाने योग्यः स तस्य प्रयोक्तव्यः| किम्भूतः ? द्विस्त्रिः स्रुतो-द्वौ वारौ त्रीन् वारान् वा जलं दत्त्वा धातः| कथं प्रयोज्यः दोषदूष्यादिबलेन| ज्वरघ्नैः-ज्वरापहैर्द्रव्यैः, क्वाथं कृत्वा, तेन क्वाथेन साधितः| दोषस्य-वातादेर्बलं तथा दूष्यस्य रसादेर्बलमपेक्ष्य, आदिग्रहणाद्देशकालवयः सत्त्वसात्म्यशरीराहारबलं गृह्यते| एकाहादिकानां ज्वरिणामकृतपेयानामेव कुलत्थमुद्गचणकादियूषा उक्ताः| सम्प्रति सामान्येन ज्वरिणां कृतपेयानां यूषादीनाह-
आयुर्वेदरसायनम् व्याख्या
ओदनविधिमाह-ओदनस्तैरिति| तैः-रक्तशाल्यादिभिः, द्विस्त्रिर्वा स्रुतो-यूळितः(?), उदकान्तरप्रक्षेपेण|
कैयदेवनिघण्टु - ३. धान्यवर्ग
शालयो लघवः स्निग्धा मधुरा रसपाकतः ||७||
कषायानुरसा हृद्या रुच्या बद्धाल्पवर्चसः | शीतला बृंहणा वृष्या लघुपाकातिमूत्रलाः ||८||
पित्तघ्नाल्पानिलकफा बल्याः स्वर्या ज्वरापहाः | रक्तशालिर्वरस्तेषां दृक्शुक्रबलपुष्टिदः ||९||
दीपनो मूत्रलो हृद्यो स्वर्यो वर्ण्यस्त्रिदोषहा |तृष्णाव्रणविषश्वासकासदाहज्वरापहा ||१०||
द्रव्यगुणसङ्ग्रह - १. धान्यवर्ग
रक्तशालिस्त्रिदोषघ्नश्चक्षुष्यः शुक्रमूत्रलः | तृष्णाघ्नो बलकृत् स्वर्यो हृद्यस्तदनु चापरे ||१२||
द्रव्यगुणसङ्ग्रहटीका व्याख्या (श्रीशिवदाससेन कृत)
अपरशालिगुणानाह– तदित्याति| अनुशब्दो हीनार्थः, तेन रक्तशालिमपेक्ष्यापरे शालयः किञ्चिद्धीनगुणा इत्यर्थः| एतेन शेषशालीनामप्यतिदेशेन गुणा उक्ताः||१२||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - ९. धान्यवर्ग
रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् | चक्षुष्यो मूत्रलः स्वर्यः शुक्रलस्तृड्ज्वरापहः ||१४||
विषव्रणश्वासकासदाहनुद् वह्निपुष्टिदः | तस्मादल्पान्तरगुणाः शालयो महदादयः ||१५||
राजनिघण्टु - १६. शाल्यादिवर्ग
रक्तशालिस्ताम्रशालिः शोणशालिश्च लोहितः | रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ||१५||
रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः | सर्वामयहरो रुच्यो पित्तदाहानिलास्रजित् ||१६||
राजवल्लभनिघण्टु - ३. माध्याह्निकपरिच्छेद
रक्तशालिस्त्रिदोषघ्नश्चक्षुष्यः शुक्रमूत्रलः | तृष्णाघ्नो बलकृत्स्वर्यो हृद्यस्तदनु चापरे ||५||
शालयो रक्तशालीनां किञ्चिद्धीनगुणा गुणैः ||६||
सोढलनिघण्टु - गुणसङ्ग्रह (द्वितीय भाग) - १९. शूकधान्यवर्ग
विशेषाल्लोहितस्तेषु बल्यो व्रण्यश्च दोषजित् ||८९७||
चक्षुष्यः स्वरकृद्वृष्यस्तृष्णाज्वरविषापहः |
Oryzenin
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | मधुर - Madhura - Sweet कषाय - Kashaya - Astringent |
|---|---|
| Guna | लघु गुणम् - Laghu Gunam - Drug property which induces lightness to body स्निग्ध गुणम् - Snigdha Gunam - Drug action which imparts unctuousness |
| Veerya | Shita Virya |
| Vipaka | Madhura |
| Prabhava | बृंहणम् (Brumhana, Medicines which increases the size of the body) |
| Anupanam | यूषम् - Yusham - Soup prepared with Pulses or dicotyledon seeds | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|---|---|---|---|---|---|
| 1 | क्षतक्षीणे रक्तातिप्रवृत्तिः - Kshatakshine Raktatipravrutti - Excessive hemoptysis in pulmonary diseases with cachexia | पुनर्नवा तण्डुलादि चूर्णम् - Punarnava Tanduladi Churnam | बीजम् - Beejam - Seeds | चरकसंहिताचिकित्सास्थानम् - ११. क्षतक्षीणचिकित्सितम् | ||
| 2 | ऊर्ध्वग रक्तपित्तम् - Urdhvaga Raktapittam - Disease spectrum associated with hematemesis or Hemoptysis | पुनर्नवा तण्डुलादि चूर्णम् - Punarnava Tanduladi Churnam | बीजम् - Beejam - Seeds | चरकसंहिताचिकित्सास्थानम् - ११. क्षतक्षीणचिकित्सितम् | ||
| 3 | ऊर्ध्वग रक्तपित्तहरम् - Urdhvaga Raktapittaharam - Anti hemoptysis / Hematemesis agent | पुनर्नवा तण्डुलादि चूर्णम् - Punarnava Tanduladi Churnam | बीजम् - Beejam - Seeds | चरकसंहिताचिकित्सास्थानम् - ११. क्षतक्षीणचिकित्सितम् |
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment | |
|---|---|---|---|---|---|---|---|
| Adult Dosage | बहुरूपम् - Bahurupam - Various Forms | <= | 150 | g | 2 times / day | 365 days | |
| Child Dosage | बहुरूपम् - Bahurupam - Various Forms | <= | 75 | g | 2 times / day | 365 days |