Brief Description
Essential oil extracted from Garlic which is anti tumor, neuro protective, anti thrombotic, anti microbial, anti diabetic, anti rheumatic, free radical scavenging , anti atherosclerotic action
अभिधानमञ्जरी
शूकधान्यादिवर्ग - ५. शाकवर्ग
गृञ्जनक
दीर्घपत्रस्तृतीयस्तु श्वेतो गृञ्जनको भवेत् | लशुनः पूतिपत्राख्यः श्वेतकन्दश्च गृञ्जनः ||८२४||
अभिधानरत्नमाला - ५. कटुस्कन्ध
धन्वन्तरिनिघण्टु - ४. करवीरादिवर्ग
रसोन
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् | महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ||६५||
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः | वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः ||६६||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् | दुर्नामकुष्ठानिलसादजन्तु कफामयान्हन्ति महारसोनः ||६७||
कैयदेवनिघण्टु - १. ओषधिवर्ग
लशुन
रसोनो लशुनोऽरिष्टो म्लेच्छगन्धो जुगुप्सितः | उग्रगन्धो म्लेच्छकन्दो यवनेष्टो महौषधम् ||१२१९||
महाकन्दो गर्जरोऽन्यो गृञ्जनो दीर्घपत्रकः | लशुनः कटुकः पाके रसे स्निग्धो गुरुः सरः ||१२२०||
तीक्ष्णोष्णो मधुरो वृष्यो हृद्यो बृंहणपाचनः | पित्तास्रबलमेधाक्षिवर्णकेशस्वराग्निकृत् ||१२२१||
भग्नसन्धानकृद् हन्यात् कफवातारुचिकृमीन् | हिक्काकासज्वरश्वासकुष्ठमेहामपीनसान् ||१२२२||
श्वित्रार्शोगुल्महृद्रोगशूलशोफान् रसायनम् |१२२३|
निघण्टुशेष - ४. शाककाण्ड
लशुन
रसोने लशुनो म्लेच्छकन्दोऽरिष्टो महौषधम् ||३३८||
महाकन्दः .. .. .. |३३९|
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
अम्लेन रसेन ऊनो रसोनः, पञ्चरसत्वात्| यद् व्याडिः-
ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्तितः| [...] इति|
तत्र| लष्यते-अभिलष्यते लशुनः, “लषेः श च” [हैमोणादिसू. २८९] इत्युनः प्रत्ययः तालव्यः शकारश्चान्तादेशः| [पुं-क्लीबलिङ्गावेतौ|] म्लेच्छानां प्रियः कन्दो म्लेच्छकन्दः| न रिष्यते अरिष्टः| महौषधं रोगजित्त्वात्||३३८||
महांश्चासौ कन्दश्च महाकन्दः| आह च–
.. .. .. अथ महौषधम्|
लशुनं गृञ्जनारिष्ट-महाकन्द-रसोनकः|| [अमर. का. २ वर्ग ४ श्लो. १४८] इति|
एतस्य लोके ‘ल्हसणु’ इति प्रसिद्धिः|
गृञ्जन
.. .. .. अपरोऽप्येष गृञ्जनो दीर्घपत्रकः |३३९|
निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
‘अपरः’ अन्यः ‘एषः’ रसोनः गृञ्ज्यते-कुत्सितः शब्द्यते गृञ्जनः, पुं-क्लीबलिङ्गः| दीर्घं पत्रमस्य दीर्घपत्रः, के दीर्घपत्रकः|
पर्यायरत्नमाला
रसोन, गृञ्जन
लशुनस्तु रसोनोऽन्यो ||६३५||
बृहत्पत्रस्तु गृञ्जनः ||६३६||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण - २. हरीतक्यादिवर्ग
लशुन
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् | अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ||१९०||
यदामृतं वैनतेयो जहार सुरसत्तमात् | तदा ततोऽपतद् बिन्दुः स रसोनोऽभवद् भुवि ||१९१||
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः | तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ||१९२||
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ||१९३||
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः | बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ||१९४||
रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः | रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ||१९५||
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः | बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ||१९६||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् |दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ||१९७||
मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम् |व्यायाममातपं रोषमतिनीरं पयो गुडम् |
रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम् ||१९८||
मदनपालनिघण्टु - ७. शाकवर्ग
लशुन
लशुनः स्यादुग्रगन्धी यवनेष्टो रसोनकः | गृञ्जनोऽन्यो महाकन्दो जर्जरो दीर्घपत्रकः ||७४||
लशुनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः | भग्नसन्धानकृत्केश्यो गुरुः पित्तास्रबुद्धिदः ||७५||
रसायनं कफश्वासकासगुल्मज्वरारुचीः | हन्ति शोथप्रमेहार्शः कुष्ठशूलानिलक्रिमीन् |
तत्पत्रं मधुरं क्षारं नालो मधुरपित्तलः ||७६||
माधवद्रव्यगुण - १. विविधौषधिवर्ग
तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः ||३७||
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनरोचनः | भग्नसन्धानकृद् बल्यो रक्तपित्तप्रदूषणः ||३८||
किलासगुल्मकुष्ठार्शोमेहकृमिकफानिलान् | सहिध्मापीनसश्वासकासान् हन्ति रसायनः ||३९||
राजनिघण्टु - ७. मूलकादिवर्ग
रसोन
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् |भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ||४९||
रसोनगुण
रसोनोऽम्लरसोनः स्याद्गुरूष्णः कफवातनुत् |अरुचिकृमिहृद्रोगशोफघ्नश्च रसायनः ||५०||
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः |
वृष्यश्च मेधास्वरवर्णचक्षुभग्नास्थिसन्धानकरः सुतीक्ष्णः ||५१||
महारसोन
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् | दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ||५४||
राजवल्लभनिघण्टु - ३. माध्याह्निकपरिच्छेद
रसोनगुण
लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः | भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ||४४९||
शब्दचन्द्रिका - १. वृक्षादिवर्ग
लशुन
लतार्कदुर्द्रुमौ तत्र हरितेऽथ महौषधम् ||२७०||
लशुनं गृञ्जनारिष्ट महाकन्दरसोनकाः | शोणहो रसुनश्चापि पर्यायः परिकीर्तितः ||२७१||
सि. मं. ५ / कफवातघ्न पित्तल द्रव्य ( ९२ )
चव्यं त्वचा च वाराहीकन्दो लशुनगृञ्जनौ | पुन्नाडबाकुचीबीजं लुङ्गीजम्बीरजं फलम् ||९२||
सरस्वतीनिघण्टु - ५. चन्दनादिवर्ग
रसोन
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ||५७|| आशुरं पुटकोषं च शुक्लकं च रसोनकम् |५८|
सोढलनिघण्टु
समराजी रसोनं च पलाण्डुद्वयगृञ्जने |
रसोनकन्दस्तीक्ष्णोष्णः कटुपाकरसः सरः | हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनरोचनः ||४१५||
भग्नसन्धानकृद्बल्यः स्वर्यः पित्तास्रवर्णकृत् | किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् ||४१६||
सहिध्मापीनसश्वासकासान् हन्ति रसायनम् | मेध्यः शूलापहः प्रोक्तो जीर्णज्वरविबन्धहृत् ||४१७||
तत्पत्रं क्षारमधुरं मेध्यं मधुरपिच्छिलम् | पाण्डूदरोरःक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु |
पैत्ते विकारेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः ||४१८||
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते | शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम् ||४१९||
Allicin
Allylprophyldisulphide
Diallyl disulfide
Allyl trisulfide
Diallyl tetra Sulphide
Triallyl tetra Sulphide
Diallyl hepta Sulphide
Diallyl Hexa Sulphide
Hexa allyl tetra Sulphide
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | कटु - Katu - Pungent मधुर - Madhura - Sweet तिक्त - Tikta - Bitter कषाय - Kashaya - Astringent लवण - Lavana - Salt |
|---|---|
| Guna | उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat तीक्ष्णम् - Tikshnam - Drug action which irritates body by its Pungent quality सर गुण - Saraguna - Drug action which imparts movement गुरु गुणम् - Guru gunam - Drug action which induces heaviness पिच्छिल गुणम् - Picchila Gunam - Drug action which induces lubrication/sliminess |
| Veerya | Ushna veerya |
| Vipaka | Katu |
| Prabhava | |
| Anupanam | मद्यम् - Madyam - Alcoholic Preparations | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
1. https://www.google.com/search?q=garlic+essential+oil+research+paper&sxsrf=APwXEdfirZf5JE7xHm9A7dJgIzN72dysyg%3A1683168349237&ei=XRxTZO6CDu6VseMP39WioAQ&oq=garlic+essential+oil+reasearch&gs_lcp=Cgxnd3Mtd2l6LXNlcnAQAxgAMgcIIRCgARAKMgcIIRCgARAKOgcIIxCKBRAnOgQIIxAnOgcILhCKBRBDOhEILhCABBCxAxCDARDHARDRAzoLCAAQgAQQsQMQgwE6CwguEIoFELEDEIMBOgoILhCKBRDUAhBDOgcIABCKBRBDOgsILhCDARCxAxCABDoNCC4QigUQsQMQ1AIQQzoNCC4QgAQQFBCHAhCxAzoKCC4QigUQsQMQQzoNCC4QigUQsQMQgwEQQzoFCAAQgAQ6CggAEIAEEBQQhwI6BQghEKABOggIIRAWEB4QHToKCCEQFhAeEA8QHToECCEQFUoECEEYAFAAWMY4YMVFaABwAXgAgAG5BIgB6hySAQwwLjEwLjQuMC4xLjGYAQCgAQHAAQE&sclient=gws-wiz-serp
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|