व्रणशोथ पाचन गणम् - Vranashotha Pachana Ganam
Scientific Name: Group of drugs which promote suppuration of Abscess
Hindi Name: व्रणशोथ पाचन गण - Vranashotha Pachana Gan
English Name: Vranashotha Pachana Ganam - Group of drugs which promote suppuration of Abscess
Category: Combination Products
Sub-Category: लेपम् - Lepam - Anointments
Brief Description
Group of drugs which promote suppuration of Abscess
सुश्रुतसंहिता - चिकित्सास्थानम् - १. द्विव्रणीयचिकित्सितम्
निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः ||२४||
तस्य सम्पाचनं कुर्यात् समाहृत्यौषधानि तु | दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु ||२५||
स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम् | सैरण्डपत्रया शोफं नाहयेदुष्णया तया ||२६||
हितं सम्भोजनं चापि पाकायाभिमुखो यदि |२७|
निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)
पाचनविषयमाह- निर्वतत इत्यादि| विरेकान्तैरिति अपतर्पणाद्यैर्विरेकान्तैरित्यर्थः| समाहृत्यौषधानीति औषधानि मिश्रकोक्तानि शणमूलकबीजादीनि समभागप्रमाणानि, तथा चतुर्गुणदध्यादिद्रवाणि च समाहृत्य एकीकृत्य, लवणीकृत्य स्पष्टलवणीकृत्य, नातिद्रवां नातिशुष्कामुपनाहयोग्यामुत्कारिकां पाचयेत्; उत्कारिका लप्सिकाकृतिः, अन्ये पूपलिकाकृतिमाहुः| नाहयेद् बध्नीयात्| तया उत्कारिकया| हितं सम्भोजनमिति सम्भोजनं यथेष्टभोजनम्| तच्च कीदृशं? हितं हितकारि; कोऽर्थः? नात्यर्थकफकारि न चोपद्रवकारीत्यर्थः| एतेनाहारविधानोक्तैरुष्णस्निग्धादिभिरेव सम्भोजनं कार्यमित्युक्तम्| सुधीरस्तु ‘पथ्यापथ्यमिहैकत्र भुक्तं सम्भोजनं मतम्’- इत्याह; तच्च श्रीजेज्जटगयदासौ नेच्छतः| उपनाहनिष्पाद्यं कर्म पाचनमिति मत्वा पाचनं पृथगुपक्रमं गयदासो न पठति||२४-२६||-
सुश्रुतसंहिता - सूत्रस्थानम् - ३७. मिश्रकाध्यायः
शणमूलकशिग्रूणां फलानि तिलसर्षपाः | सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ||९||
निबन्धसङ्ग्रह व्याख्या (डल्हण कृत)
विम्लापनमभिधाय पाचनानि निर्दिशन्नाह- शणमूलकेत्यादि| फलशब्दः शणादिभिः सर्षपान्तैः सह प्रत्येकं सम्बध्यते| शणः परिपाके सस्वनफलः, शिग्रुः शोभाञ्जनकः, किण्वं सुराबीजं यद्बहिः प्रक्षिप्यते, अतसी ‘अलसी’ इति लोके प्रसिद्धा, द्रव्याण्युष्णानि उष्णवीर्याणि कुष्ठागुरुप्रभृतीनि| एतेनानुक्तपाचनद्रव्यसङ्ग्रह उक्तः| पाचनं शोथस्य| शेषं प्रसिद्धम्| एतेषां व्यस्तानां समस्तानां च पाचनत्वं, सक्तूनां शीतवीर्यत्वेऽपि प्रभावविशेषात् पाचनत्वं संयोगविशेषाद्वा||९||
चक्रदत्त टीका
अत्र सक्तवो यद्यपि शीतास्तथाऽपि द्रव्यान्तरसंयोगाद्व्रणपाचना भवन्ति| यथा तिले प्रोक्तं शोधयेद्रोपयेच्चैव युक्तः शोधनरोपणैः (चि. अ. १) इति| सक्तूनां च स्वतन्त्रे दधिचुक्रसुराशुक्त (चि. अ. १) इत्यादिना संयुक्तस्यैव पाचनत्वं वक्तव्यम्| चरकेऽप्युक्तं- सतिला सातसीबीजदध्यम्भःशक्तुपिण्डिका (च. चि. अ. २५) इति| तथा शीतत्वेऽपि शक्तूनां व्रणपाचनशक्तिराचार्यवचनादेवोन्नीयते| भवति हि विषयभेदेऽपि भिन्नशक्तित्वं| यथा- काञ्जिकस्योष्णस्यापि बहिःस्पर्शनशीतत्वं, तथा तिलस्य कफपित्तकरस्यापि व्रणविषये त्रिदोषहरत्वम्| यदुक्तं स माधुर्यात्तथैवौष्ण्यात् स्नेहाच्चानिलनाशनः| कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तनुत्| औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः इति चक्रः|
चरकसंहिता - चिकित्सास्थानम् - २५. द्विव्रणीयचिकित्सितम्
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत् | तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते||४९||
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका | सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते||५०||
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका | सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने||५१||
रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत् | जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम्||५२||
उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः | विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः||५३||
इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः | सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते||५४||
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत)
उपनाहैरिति सोष्णबहललेपैः| किण्वं सुराबीजम्| उमा अतसी| सौधं पयः स्नुहीक्षीरम्| हेमक्षीरी कङ्कुष्ठम्| मुकूलकः दन्ती| सुकुमारस्येति च्छेदः| कृच्छ्रस्येति असुकुमारस्य, शस्त्रं परं भेदनमिति सम्बन्धः||४९-५४||
अष्टाङ्गसङ्ग्रहः - उत्तरस्थानम् - ३०. व्रणप्रतिषेधः
विलीयते स चेन्नैव ततस्तमुपनाहयेत्| अविदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते|
शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्य बध्नीयात्||१८||
पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च||१९||
शशिलेख व्याख्या (इन्दु कृत)
स चेत् स्थिरत्वादिगुणः शोफो न विलीयते ततस्तमुपनाहयेत् बध्नीयात् तथेत्युपनाहेन अविदग्धोऽभिनवः शोफः शान्तिमश्नुते विदग्धः पाकाभिमुखः पाकमश्नुते| शिग्र्वादिभिरुत्कारिकया प्रलिप्यैरण्डपत्रेणाच्छाद्य वध्नीयात्||१८||
अष्टाङ्गहृदयम् - उत्तरस्थानम् - २५. व्रणप्रतिषेधाध्यायः
विलीयते स चेन्नैवं ततस्तमुपनाहयेत् | अविदग्धस्तथा शान्तिं विदग्धः पाकमश्रुते||३४||
सकोलतिलवल्लोमा दध्यम्ला सक्तुपिण्डिका | सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने||३५||
सर्वाङ्गसुन्दरी व्याख्या
एवं कृते यदि शोफो न विलीयते, ततस्तमुपनाहयेत्| तथा कृते सत्यविदग्धः शोफण् सन् शान्तिं प्राप्नोति| विदग्धस्तु पच्यते|
बदरादियुता सक्तुपिण्डिकाऽम्लदधियुता किण्वाद्यन्विता कोष्णा उपनाहे श्रेष्ठा|
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | अम्ल - Amla - Sour कटु - Katu - Pungent कषाय - Kashaya - Astringent लवण - Lavana - Salt |
|---|---|
| Guna | लघु गुणम् - Laghu Gunam - Drug property which induces lightness to body तीक्ष्णम् - Tikshnam - Drug action which irritates body by its Pungent quality उष्णं गुणम् - Ushna Gunam - Drug action which imparts heat स्निग्ध गुणम् - Snigdha Gunam - Drug action which imparts unctuousness श्लक्ष्ण गुणम् - Shlakshna Gunam - Drug property which imparts smoothness सान्द्र गुणम् - Sandra Gunam - Drug action which imparts thickness or tightness or tight binding मृदु गुणम् - Mrudu Gunam - Drug action which imparts softness स्थिर गुणम् - Sthira Gunam - Drug action which imparts stability सूक्ष्म गुणम् - Sukshma Gunam - Drug property by virtue of which molecules of drug can eneter into minutetst spaces of body पिच्छिल गुणम् - Picchila Gunam - Drug action which induces lubrication/sliminess |
| Veerya | Ushna veerya |
| Vipaka | Amla |
| Prabhava | व्रणशोथ पाचनम् - Vranashotha Pachanam - Pharmacological Action which promotes suppuration of Abscess |
| Anupanam | No Specific Anupanam | modal-content
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment | |
|---|---|---|---|---|---|---|---|
| Adult Dosage | लेपम् - Lepam - Anointments | <= | 100 | g | 2 times / day | 15 days | Fine powder made into paste and applied over abscess and covered with Castor plant Leaves |
| Child Dosage | लेपम् - Lepam - Anointments | <= | 100 | g | 2 times / day | 15 days | Fine powder made into paste and applied over abscess and covered with Castor plant Leaves |