सिद्धमन्त्र - ४. वातपित्तघ्नवर्ग
वातपित्तघ्न द्रव्य
वातपित्तहरं शाकवृक्षो यष्टी शतावरी | कपिकच्छुर्वृश्चिकाली प्रियङ्गुः पर्वणी मुरा ||५५||
नेपाली कुक्कुटी हंसपादी लामज्जमल्लिका | मञ्जिष्ठानागदन्त्योस्तु शाकं पुस्तकशिम्बिका ||५६||
मुञ्जातं कोलमाधूके पक्वे द्राक्षाकराम्लके | शुष्के मज्जा कोलचारकोशाम्रार्ग्वधलुङ्गजा ||५७||
तालधात्र्योश्च रक्तेक्षुः रजतं लाजसक्तवः | भक्ष्याः सवेसवाराज्यसिद्धसामितफेनकाः ||५८||
घोलसौरावखानिष्काः सन्तानी मांसजो रसः | नारिकेलोदकं स्वादु वापीवार्यौद्भिदं जलम् ||५९||
वर्तिकावर्तङ्केन्द्राभो गोर्नदी गिरिवर्तिकाः | वरशूरः सारपदो वरकः कुक्कुभारटौ ||६०||
मयूरः शतपत्रश्च कुक्कुटश्चेति विष्किराः |६१|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
शाकवृक्षः खरपत्रः, यष्टी यष्टीमधु, शतावरी प्रसिद्धा, कपिकच्छुरात्मगुप्ता, वृश्चिकाली अग्निकः, प्रियङ्गुर्गन्धद्रव्यं, पर्वणी शाकविशेषः, मुरा गन्धकुटी| नेपाली नवमल्लिका, कुक्कुटी- “कुक्कुटाण्डनिभैः कन्दैः किञ्चित्कटुकपिच्छिलैः| स्निग्धैर्मरकतच्छायैः खर्जूरसदृशच्छदैः|” इत्यष्टाङ्गसङ्ग्रहोक्ता| हंसपादी त्रिपादी, लामज्जमल्लिके प्रसिद्धे, मञ्जिष्ठाशाकं नागदन्तीशाकञ्च, पुस्तकशिम्बिका पुस्तकाकार शिम्बिः| मुञ्जातं कन्दविशेषः, कोलमाधूके, पक्वे कोलं बदरीफलं, माधूकं मधूकफलं, द्राक्षाकराम्लके शुष्के, द्राक्षा गोस्तनी, कराम्लं करमर्दकम्| कोलादीनां धात्र्यन्तानां मज्जा| तत्र कोलं बदरं, चारं प्रियालं कोशाम्रं लाक्षावृक्षफलम्, आर्ग्वधः शम्पाकफलं, लुङ्गं मातुलुङ्गम्| तालं तालकफलं, धात्री आमलकं, रक्तेक्षुः लोहितेक्षुः, रजतं रुप्यं, लाजसक्तवो लाजानां सक्तवः| सवेसवारादयश्चत्वारो भक्ष्याः| तत्र सवेसवारो वेसवारगर्भः, वेसवारो व्याख्यातः, स्विन्नपिष्टमुद्गादिकल्को वेसवार इत्येके| ’पिप्पलीशुण्ठोमरिचधान्यकाजाजिदाडिमम्|
पिप्पलीमूलसंयुक्तं वेसवार इति स्मृतः' इत्यन्ये| ’पिप्पलीर्मरिचं विश्वं सर्पिर्गुडसमन्वितम्|
एकत्र योजितं सर्वं वेसवार इति स्मृतः' इत्यपरे| आज्यसिद्धो घृतपक्वः, सामितः समिताकृतो मण्डकादिः| समिता गोधूमचूर्णम्, फेनकः पूपविशेषः, तल्लक्षणम्–
विमृद्य समितां शुष्कां विमलां नातिशर्कराम्|
संवेष्टनाय गर्भार्थं खरपाके घृते पचेत्||
घृतपूरसमाकारं यथाभिप्रेतविस्तृतम्|
फेनकं फेनसङ्काशं कुर्यात् सूपविधानवित्| इत्युक्तम्|
घोलो दधिविकारः| उक्तञ्च–
“ससारासारपादार्धसमाम्बुमथितं दधि|
क्रमेण घोलमथिततक्रोदश्वित्सितोदकम्”|
सौरावः स्वौरकः| तल्लक्षणम्–
“मासं निरस्थि सुस्विन्नं वेसवारैः स्सुसाधितम्|
सारितं शीतलं स्वच्छं धूपितं स्वौरकः स्मृतः|| इति|
खानिष्कः परिशुष्कामिषभेदः| वेसवारामिषभेद इत्येके|
अन्ये त्वाहुः–
सौरावस्तु स विज्ञेयो रसो योऽलवणस्तनुः|
स एव वेसवारेण मिश्रः खानिष्क उच्यते|| इति|
सन्तानी क्षीरस्योपरि स्त्यानो भागः| मांसजो रसः मांसजो निःक्वाथः, नारिकेलोदकं द्रवावस्थं नारिकेलं, तत्स्थं वा उदकम्| स्वादु वापीवारि मधुरदीर्घिकातोयं, औद्भिदं जलं भूमिं उद्भिद्योर्ध्वं निर्गच्छद्वारि| वर्तिकादयः कुक्कुटान्ता विष्किराः| तत्र वर्तिका वर्तकसदृशी ततोऽप्यल्पा, वर्तको वार्तागदल्पस्तभ्देदो महान्| इन्द्राभः कङ्क्भेदो विचित्रवर्णः, गोनर्दों गोनदः| गिरिवर्तिका वर्तिकाभेदः पर्वतचारी| वरशूरोऽत्यन्तशौर्यवान्| सारपदः कङ्क्भेदः चारुगतिः| वरकः प्रसिद्धः, कुक्कुभः कुक्कुशब्दोच्चारी, आरटो वोरटी| मयूरः नीलकण्ठः, शतपत्रो दार्वाघाटः, तल्लक्षणम्–
दारूणामाहननाद्दार्वाघाटस्तु दीर्घचञ्चुशिराः|
कर्बुरवर्णों लोके प्रथितोऽसौ काष्ठकुट्ट्कः पक्षी|| इति||
कुक्कुटस्ताम्रचूडः| एतत्सर्वं वातपित्तघ्नम्||५५-६०||