वातपित्तघ्न कफकर द्रव्याणि - Vatapittaghna Kaphakara Dravya
Scientific Name: वातपित्तघ्न कफकर द्रव्याणि - Vatapittaghna Kaphakara Dravya
Hindi Name: वातपित्तघ्न कफकर द्रव्याणि - Vatapittaghna Kaphakara Dravya
English Name: Vatapittaghna Kaphakara Dravya
Category: Combination Products
Sub-Category: बहुरूपम् - Bahurupam - Various Forms
Brief Description
सिद्धमन्त्र - ४. वातपित्तघ्नवर्ग
वातपित्तघ्न कफकर द्रव्य
श्लेष्मलं वातपित्तघ्नं तालद्रूनरपुष्पकः ||६१||
मेदे विदार्यौ काकौल्यौ वृध्द्यर्धी जीवकर्षभौ | कलम्बुककिञ्चुटकौ तथा क्षीरपलाण्डुकः ||६२||
लक्ष्मणोपोदका सूर्यपर्ण्यौ पुष्पं मधूकजम् | लुङ्गमांसं त्र्यक्षतालखर्जूरादेः फलाग्रजौ ||६३||
फलं रम्भाकोलचारसौवीरं चाथ पाकिमम् | तूदद्राक्षाम्रातशेलुपनसं करमर्दकम् ||६४||
बालं कूष्माण्डकं खण्डमत्स्यण्डी गुडसटकाः | क्षीरक्षौद्रसिताशाकेक्षुभक्ष्या घृतपूरकाः ||६५||
नवनीतं घृतं क्षीरं शृतक्षीरजमाहिषे | दधिनी दधि सश्वेतं तक्रं स्वाद्विक्षुजो रसः ||६६||
तैलं भूनिम्बशेल्वक्षकोलाक्षोटातिमुक्तजम् | चारार्कवल्लीजीवन्तीनारिकेलमधूकजम् ||६७||
कर्कार्वेवारुकूष्माण्डकालिङ्गत्रपुसादिजम् | कुलिङ्गकुक्कुटौ ग्राम्यौ गोधा च गवयो रुरुः ||६८||
वन्यो गौश्चमरो रोही सृमराद्या महामृगाः | हंससारसकादम्बबककारण्डवप्लवाः ||६९||
शृगालकण्ठचक्राह्वबलाकारक्तशीर्षकाः | नन्दीमुखः काकतुण्डः सुमुखो मणितुण्डकः ||७०||
शराटिका घनारावः कोशकाल्यम्बुकुक्कुटी | उत्क्रोश आरा भारुण्ड आटिः पुष्करशायिका ||७१||
पुण्डरीकाक्षकाचाक्षमल्लिकाक्षाश्चकेशरी | कोनीलरोहिणीमद्गुक्रौञ्चाद्याः जलपक्षिणः ||७२||
चुल्लकीकूर्मकुम्भीरशिशुमारोद्रकर्कटाः | नक्रादयः पादिनोऽथ शङ्खशम्बूकशुक्तयः ||७३||
कपर्दकः शङ्खनको भल्लूकाद्याश्च कोशिनः |७४|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
तालद्रुस्तालवृक्षः, नरपुष्पको नरफुल्लकः| मेदे महामेदा मेदा च, विदार्यौ विदारी क्षीरविदारी च, काकोल्यौ काकोली क्षीरकाकोली च, वृद्धर्धी वृद्धिः ऋद्धिश्च, जीवकर्षभौ जीवकः ऋषभश्च, कलम्बुकाकञ्चटकौ जलशाकविशेषौ, क्षीरपलाण्डुः सक्षीरो मधुरः पलाण्डुभेदः|
लक्ष्मणा रक्तबिन्दुच्छदा, उपोदका उपोदकी, सूर्यपर्ण्यौ मुद्गपर्णी माषपर्णी च, पुष्पं मधूकजं मधूककुसुमं फलवद् भक्ष्यं, लुङ्गमांसं मातुलुङ्गस्य त्वक्केसरवर्जितो मध्यभागः| त्र्यक्षादीनां फलमग्रजश्च| तत्र त्र्यक्षो नारिकेलः, तालो दीर्घतरुः, खर्जूरः स्वादुमस्तकः, आदिशब्दादन्येष्ये वंविधाः| अग्रजो मस्तकमज्जा| रम्भादीनां त्रयाणां फलम्| तत्र रम्भा कदली, अङ्कोलोऽङ्कोठः, चारः पियालः, सौवीरं मरुदेशजं मधुरं महद् बदरम्| पाकिममिति तूदादेः फलषट्कस्य विशेषणम्| तूदमुत्तरापथजम्, द्राक्षा गोस्तनी, आम्रातमाम्रवाटम्, शेलु श्लेष्मातकम्, पनसः कण्टकिफलः, करमर्दकं कराम्लकम्| पाकिमं पक्वम्| बालं कोमलं कूष्माण्डम्| खण्डमत्स्याण्डीगुडा इक्षुविकारः| उक्तञ्च,–
’इक्षोः रसस्य सलमत्र्यंशार्धाङ्घ्रिमलामलाः|
विकारा फाणितगुडमत्स्यण्डीखण्डशर्कराः– 'इति|
सट्टकः–
’लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम्|
दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम्||
सट्टकं तु प्रमोदाख्यं नलादिभिरुदाहृतम्'|
इत्युक्तः| क्षीरादिभिः कृताः भक्ष्याः| तत्र क्षीरं दुग्धं, क्षौद्रं मधु, सिता शर्करा, शाकं कूष्माण्डादि, इक्षु गुडकाष्ठं, घृतपूरकः “मर्दितः समितापिण्डः पयसालोड्य साधितः|
घृतावगाहितः पक्वः स्यादेष घृतपूरकः|| इत्युक्तः|
नवनीतघृतक्षीराणि प्रसिद्धानि| शृतक्षीरजमाहिषे दधिनी शृतक्षीरजं क्वथितक्षीरजं, माहिषं महिषीक्षीरजं, दधि सश्वेतं शर्करामिश्रितं दधि, तक्रं स्वादु मधुरं तक्रं, इक्षुजो रसः इक्षुरसः|
भूनिम्बादीनां त्रपुसान्तानां तैलम्| तत्र भूनिम्बः किराततिक्तकः, शेलुः श्लेष्मान्तकः, अक्षो विभीतकः, कोलं बदरं, अक्षोटः कर्परालः अतिमुक्तो माधवी, चारः पियालः, अर्कवल्ली आदित्यभक्ता, जीवन्ती स्वर्णजीवन्ती, नारिकेलस्त्र्यक्षः, मधूको मधूकद्रुमः|
कर्कारुः व्याख्यात, एर्वारुः कर्कटी, कूष्माण्डं पुष्पफलम्, कालिङ्गं कालिन्दम्, त्रपुसं बालुकं, आदिशब्दादन्यान्यप्येवंविधानि; एषां फलमज्जातः प्रायस्तैलमुत्पादयन्ति| कुलिङ्गकुक्कुटौ ग्राम्यौ, कुलिङ्गश्चटकः, कुक्कुटस्ताम्रचूडः, ग्राम्यौ ग्रामचारिणौ| गोधा षण्डः गवयादयः सृमराद्यन्ता महामृगाः आरण्या पशवः| तत्र गवयो गवाकारः सास्नाककुदरहितः, रौतीति रुरुः, तल्लक्षणम्–
’विकटबहुविषाणः शम्बराकारदेहः सलिलतटचरत्वाच्छम्बरेभ्यो विभिन्नः|
त्यजति शरदि शृङ्गं रौत्यतोऽसौ रुरुः स्यात् प्रचुरमृगविशेषः प्रायशश्चेदिदेशेः'|
वन्यो गौररण्यचरो गोभेदः, चमरः केशमृत्युः गोसदृशः, रोही रोहीतकः, सृमरो मत्स्याकारश्चमरसदृशः, वेगवान्महाशूकर इत्येके, आदिशब्दादन्येऽप्येवंविधाः| हंसाद्या क्रौञ्चाद्यन्ताः जलपक्षिणः| हंसो मानसौकाः, सारसो लक्ष्मणः, कादम्बः कलहंसो धूसरपक्षः, बकः पाण्डुरः क्षुद्रमत्स्यादः, कारण्डवः काकवक्त्रो दीर्घाङ्घ्रिः कृष्णवर्णः, प्लवो महाप्रमाणप्रसेचकगलः| शृगालकण्ठः कालबलाकः, चक्राह्वश्चक्रवाकः, बलाका बिसकण्ठिका, रक्तशीर्षको रक्तशिराः सारसभेदः| नन्दीमुखः–
’नन्दीमुखः स्यात् पत्राटी कूलचारी विहङ्गमः|
आडीभेदो लघुश्चित्रवर्णश्चित्राङ्गकाभिधः|| इत्युक्त लक्षणे नन्दीमुखर्द्,
काकतुण्डः वायसतुण्डः, सुमुखः शोभनमुखो भारुण्डभेदः, मणितुण्डः तरन्तुः|
शराटिका गर्गराटी खदिरवर्णा, घनारावश्चातकः, कोशकाली पद्मकोशनलिनी, अम्बुकुक्कुटी जलकुक्कुटी कृष्णवर्णा, उत्क्रोशः कुररभेदः, आरा आरामुखी, भारुण्डः सङ्घातचारी, अटि आडिः, पुष्करशायिका पद्मशायिनी शैवालादा| पुण्डरीकाक्षः पद्मनेत्रः पद्मकन्दादः, काचाक्षमल्लिकाक्षौ-
’स्थित्वा चिरं नभसि वीक्ष्य जलाशयान्तर्मत्स्यं ततः पतति लोष्ठवदम्बुमध्ये|
काचाक्ष एष कथितश्च कपर्दकाक्षः शुक्लाक्षशुक्लशबलः स तु मल्लिकाक्षः– 'इत्युक्तौ, केसरी सटावान्, कोनीलः श्यामपृष्ठः श्वेतोदरः, पानीयवर्तिकाख्यः, रोहिणी लोहितवर्णा, मुद्गुर्जलकाकः, क्रौञ्चः क्रौञ्चसञ्ज्ञः| आदिशब्दादन्येऽप्येवंविधाः|
चुल्लकीप्रभृतयो नक्राद्यन्ताः पादिनो जलेशयाः, पादिनश्चरणवन्तः| तत्र चुल्लकी शिशुमारभेदः स्वल्पः, कूर्मः कच्छपः, कुम्भीरो महानक्रसदृशः, शिशुमारो द्रत्याकारोन्तर्वल्को बहिर्निश्वासमुक्, उद्रो जलबिडालः, कर्कटः कुलीरः नक्रो वज्रकारः, आदिशब्दादन्येऽप्येवंविधाः| शङ्खादयो भल्लूकाद्यन्ताश्च कोशिनो जलेशयाः, कोशिनोऽस्थिमध्यस्थाः| तत्र शङ्खः कम्बुः, शम्बूकशुक्तिकै प्रसिद्धे, कपर्दको वराटकः, शङ्खनकः क्षुद्रशङ्खः, भल्लूको महान् कपर्दकः, आदिशब्दादन्येप्येवंविधाः| एतत्सर्वं वातपित्तघ्नं कफकरञ्च|६१-७३|
| Sl.No | Raw Material | Variant | Ratio | Quantity Required for 1000g | Unit |
|---|
| Rasa | |
|---|---|
| Guna | |
| Veerya | |
| Vipaka | |
| Prabhava | |
| Anupanam | modal-content |
| Sl.No. | Disease Factor | Name of the combination | Form of the combination | Reference | Combination products | Procedure |
|---|
| Disease Factors |
|---|
| Type | Operator | Value | Unit | Frequency | Duration | Comment |
|---|