सिद्धमन्त्र - ८. दोषलवर्ग
श्लेष्मल द्रव्य
श्लेष्मलं शाल्मलीवेष्टबन्धूकाद्रर्कणोषणम् ||१५४||
कुलेवरः क्षौद्रशीर्षः पेयाः संयावपायसाः....... |१५५|
सिद्धमन्त्रप्रकाश व्याख्या (बोपदेव कृत)
शाल्मलीवेष्टो मोचरसः, बन्धूको बन्धुजीवकः, आर्द्रकणोषणं आर्द्रपिप्पली, आर्द्रमरिचम्|
कुलेवरः छत्राकभेदः खुडखुडकाख्यश्च; क्षौद्रशीर्षो मधुमस्तको भक्ष्यः, तल्लक्षणम्–
घृतेन मर्दितां तोयैस्समितं मृदुमर्दयेत्|
मातुलुङ्गत्वचा खण्डपक्वान्नार्द्रकपूरितम्||
कृत्वा पूपलिकं वृत्तं गन्धाढयं केशरान्वितम्|
पक्त्वा सर्पिषि खण्डावगाहितो मधुशीर्षकः|| इति||
पेया ससिक्थः शालितण्डुलनिष्क्वाथः| संयावः–
“समितामम्बुदुग्धेन मर्दयित्वा सुशोभनम्|
पचेत् घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे ततः||
संयावोऽसौ युतश्चूर्णैश्चपलामरिचार्द्रकैः| इत्युक्तः|
पायसः क्षैरेयी, एतत्सर्वं कफकरम्||१५४||