अ.सं.उ .9/36 ,ग.नि/उन्माद
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम् |
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ||३०||
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा |
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ||३१||
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः |
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ||३२||
ब्राह्मीत्यादि| ब्राह्मी मण्डूकपर्णी, अन्ये लवणिकामाहुः| ऐन्द्री इन्द्रवारुणी, अन्ये मत्स्याक्षकभेदमाहुः| सुरा सुराह्वं, अन्तलोपात्; अन्ये तु इन्द्रसुरा इन्द्रवारुणी, इन्द्रशब्दलोपात्| जटा जटामांसी| विषघ्नी हरिद्रा, अन्ये निर्विषामाहुः| विशल्या गुडूची| सुरसा तुलसी| ज्योतिष्मती काकमर्दनी| नागरं शुण्ठी| अत्रान्ये ‘नागविन्नाम्’ इति पठन्ति, नागविन्ना इन्द्रवारुणीभेदः, वृश्चिकपत्रिकेत्यपरे| अनन्ता उत्पलसारिवा| अभया हरीतकी| सौराष्ट्री तुवरिका| विधिकोविदो विधिज्ञो वैद्यः||३०-३२||